Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 79
________________ Jainism from the view point of Vedantic Acaryas I पुद्गलास्तिकाय आकाशास्तिकायश्चेति । अस्तिकायशब्दोऽनेकदेशवृत्तिद्रव्ये रूढः । तत्र जीवास्तिकायस्त्रिविधजीवात्मको व्याख्यातः, धर्मास्तिकायः प्रवृत्त्यनुमेयः, अधर्मास्तिकाय: स्थित्यनुमेयः, पुद्गलास्तिकायस्तु परमाणुव्यतिरिक्तानि चत्वारि भूतानि स्थावरजङ्गमरूपाणि, परमाणवस्तु नास्तिकायपदवाच्याः, परमाणवोऽपि तेषां मत एकविधा न चतुर्विधाः, पृथिव्यादिभेदस्तु परमाणुपरिणामकृतः, आकाशास्तिकायो द्विविधो लोकाकाशोऽलोकाकाशश्चेति, तत्रोपर्युपरिस्थितानां लोकानामन्तर्वर्ती लोकाकाशः, तेषामुपरि मोक्षस्थानमलोकाकाशस्तत्र हि न लोकाः सन्तीति । एवं जीवाजीवपदार्थों पञ्चधा प्रपञ्चितौ । जीवानां मोक्षोपयोगिनमपरमपि सङ्ग्रहं वदन्ति जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा इति । जीवाजीवौ प्रपञ्चितौ । तत्र जीवस्तु ज्ञानवीर्यसुखगुणः सावयवो देहपरिमाणः, अजीवस्तु जीवयोग्यं वस्तुजातं आस्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिरूपाः प्रपञ्चयन्ते, द्वेधा प्रवृत्तिः सम्य मिथ्या च तत्र मिथ्याप्रवृत्तिरास्रवः, आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः, इन्द्रियद्वारादिना पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिरूपेण परिणमत इति । अन्ये त्वार्हता कर्माण्यास्रवमाहुः, तानि हि कर्तारमभिव्याप्यास्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः, सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात्, संवरनिर्जरौ तु सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्तिः संवरः, सा हि आस्रवत् स्रौतसो द्वारं संवृणोतीति संवर इत्युच्यते । निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणास्नान 68 मौनवीरासनतिष्ठतिभोजनकेशोल्लुञ्चनादिलक्षणमर्हदुपदेशान्तर्गतं तपः, तद्धि सुखदुःखोपभोगेन पुण्यापुण्यं निःशेषं जरयतीति निर्जर उच्यते । बन्धस्त्वष्टविधं कर्म, तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति चतुर्विधं घाति कर्म । तत्र सम्यग्ज्ञानं न मोक्षसाधनं नहि ज्ञानाद्वस्तुसिद्धरतिप्रसङ्गादितिविपर्ययो ज्ञानावरणीयं कर्मोच्यते । आर्हतदर्शनान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म । बहुषु विप्रतिषिद्धेषु मोक्षमार्गेषु तीर्थकरैरुपदिष्टेषु विशेषानवधारणं मोहनीयं कर्म । सन्मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तद्धि जीवगुणानां ज्ञानदर्शनवीर्यसुखानां घातकरमिति घाति कर्मेत्युच्यते । वेदनीयं नामकं गोत्रिकमायुषमितिचतुर्विधमघाति कर्म, तद्धि शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतं, तत्र वेदनीयं नाम शुक्लपुद्गलविपाकहेतु:, तद्विबन्धोऽपि न मोक्षपरिपन्थी तत्त्वज्ञानाविघातकत्वात्, शुक्लपुद्गलारम्भकं वेदनीयकर्मानुगुणं नामिकं कर्म, तद्धि शुक्लपुद्गलस्याद्यावस्थां कलिलबुद्बुदादिरूपामारभते, गोत्रिकं त्वव्याकृतं ततोऽप्याद्यं शक्तिरूपेणावस्थितं, आयुष्कं तूत्पादद्वारेणायुष्कायति कथयतीति, तान्येतानि शुक्लपुद्गलाश्रयत्वादघातीनि कर्माणि । तदेतत् कर्माष्टकं पुरुषबन्धकत्वाद्बन्ध इत्युच्यते । मोक्षस्तु विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्य स्वस्वरूपाविर्भाव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84