Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 81
________________ 70 Jainism from the view point of Vedāntic Ācāryas न च पर्यायादप्यविरोधो विकारादिभ्यः ॥२.२.३५॥ शरीराणामवयवोपचयापचयानुसारेणात्मनोऽपि देवतिर्यड्मनुष्येष्ववयवोपचयापचयाभ्यां तत्तुल्यता स्यात् तथा सति पर्यायेणाविरोध इति न वक्तव्यं, तथा सति विकारापत्तेः सङ्कोचविकासेऽपि विकारस्य दुष्परिहरत्वात् ॥३५॥ प्रदीपः न च पर्यायादप्यविरोधो विकारादिभ्यः ॥३५।। किञ्चिदाशङ्कय परिहरतीत्याशयेन व्याकुर्वन्ति शरीराणामित्यादिना । अयमर्थः, जीवो हि नानाविधेन पूर्वोक्तकर्माष्टकेन ज्ञानावरणीयादिना तत्तच्छरीरेषु प्रविशति ततो निर्गच्छति च। तानि च शरीराणि नानापरिमाणानि तेषामवयवोपचयापचयानान्दृष्टत्वात्, एवं देवादिशरीरप्रविष्टजीवस्यापि परिमाणनानात्वेन नानात्वं वक्तव्यं, एवञ्च क्रमेऽङ्गीकार्ये प्रत्येकजीवस्वरूपाणां भेदादनवस्था, तत्र क्रमिकपरिमाणभेदमादाय परिमाणानाम्परस्परं विरोधो जीवानाम्भेदाङ्गीकारेण समाधेय इति सूत्रांशेनाशय परिहरति न चेत्यादिना । एवं न वक्तव्यं, कुतः ? विकारादिभ्यः विकारसावयवत्वानित्यत्वानां प्राप्तेर्लोकायतमतादविशेषप्रसङ्गात्, तथा सति तन्मततुल्यत्वाङ्गीकारे सति, मुष्टिस्थापितपटस्य बहिःप्रसारणेन यथा सङ्कोचविकासशालित्वं पटे तथा जीवानामपि सूक्ष्मस्थूलशरीरसम्बन्धेन सङ्कोचविकासयोरेव तन्मतेऽङ्गीकारादस्तु तथैवेति चेत्तत्राहुः विकारस्येत्यादि । तथा च जीवानां पटतुल्यतया सङ्कोचविकासाङ्गीकारे तत्तुल्यतया विकारानित्यत्वाद्यापत्तौ बन्धमोक्षव्यवस्थैव स्यादनुपपन्ना तत्साधनानामाचरणञ्चेतिभावः ॥३५॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥२.२.३६॥ अन्त्यावस्थितिर्मुक्तिसमयावस्थितिस्तस्माद्धेतोः, पूर्वदोषपरिहाराय चोभयनित्यत्वं भवेदणुत्वं वा, उभयथापि शरीरपरिमाणो न भवतीति न तवार्थसिद्धिः ॥३६॥६॥ इति द्वितीयाध्याये द्वितीयपादे षष्ठं नैकस्मिन्नसम्भवादित्यधिकरणम् ॥ प्रदीपः अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥३६॥ दूषणान्तरं वदतीत्याशयेनाहुः अन्त्येत्यादि । दिगम्बरैर्मोक्षावस्थागतो यो जीवस्तत्परिमाणमवस्थितमित्युच्यते मुक्तस्य जीवस्य देहान्तराभावात्तत्परिमाणस्य नित्यत्वं, तस्माद्धेतोः मुक्तावस्थजीव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84