Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 76
________________ APPENDIX 65 स्यात् ॥३३॥ एवञ्चात्माकाय॑म् ॥२-२-३४॥ एवञ्चात्मनोऽपि यदिष्टं शरीरपरिमाणत्वं तदपि पक्षे स्यात् पक्षे नेत्यकात्यं अपरिपूर्णत्वं तत्र शरीरैकदेशे जीव इत्येकदेशो जीवशून्यः स्यात् । किञ्च मनुष्यशरीरपरिमाणो जीवः केन चित्कर्मविपाकेन पिपीलिकाशरीरं प्रविशन्न समीयते ॥३४॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥२.२.३५॥ मनुष्यशरीरपरिमाणस्य जीवस्य हस्तिशरीरादावकात्य॑ परिहर्तुं शक्यं कथमनन्तावयव आत्मा हस्तिशरीरे तेषामवयवानामुपचयोऽर्भकशरीरेऽपचय इत्येवम् । पर्यायादविरोध इति चेन्न । विकारमूर्तत्वादिदोषप्रसङ्गात् । यदि सावयवो जीव: स्यात् देहवद्विनाशी स्यात् मूर्तत्वात् न चोपचयापचयौ शक्यौ कल्पयितुं प्रमाणाभावात् । येऽपगतास्तेऽपगता एव न तेषां पुनरात्मसम्बन्धो निरूपयितुं शक्यत इत्यसङ्गतमार्हतं मतम् ॥३५॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥२-२-३६॥ चरमदेहे गतस्य परिमाणस्यावस्थितिरिष्यते दिगम्बरैभिन्नदेहे मुक्तः सर्वगतोऽहं देहान्तरावच्छेदाभावात् तन्नित्यं परिमाणं ततश्चाद्यमध्ययोरप्यवस्थयोर्नित्यत्वं स्यादतो विशेषः सर्वदाणुर्वा सर्वगतो वा न शरीरपरिमाणत्वमनवस्थितमाश्रयितुं शक्यमेवं चोपचयापचयप्रतिज्ञाहानिरतो दिगम्बरसिद्धान्तो विवसनसमयोऽप्यत्यन्तमनादरणीय इति ॥३६॥ (II) Madhyācārya (1199-1278 A.D.) on Jainism (Brahmasūtra-Madhvabhāşyam - II. II. 33-36 with Anuvyākhyānam) ॥ नैकस्मिन्नसम्भवात् ॥२.२.३३॥ सत् स्यादसत् स्यात् सदसत् स्यात् स्यात् ततोऽन्यच्च स्यादित्येतनैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84