Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 15
________________ सिद्धहैमाष्टमाध्याये श्रीमद्वेमचन्द्रसूरिरपितदेव वक्ति"पोराणमद्धमागहभासानिययं हवइ सुत्तं" सूत्राणि ह्यर्थरूपेण तीर्थकरोपदिष्टानि सूत्ररूपेण च गगाधर ग्रथितानि यदुक्तं-"अत्थं भासइ अरहा सुत्तं गथति गणहरा निउणं" तीर्थकरस्योपदेशोऽर्द्धमागधीभाषायामिति स्पष्टं तथा गणधराणां सूत्ररचनाऽपि तस्यामेवार्द्धमागधीभा. पायां भवति । यत्तु तीर्थकरगणधराभ्यां सूत्रेष्यर्द्धमागधीमाषायां रचितेष्वपि सूत्रलेखनकालपर्यन्तं तानि सूत्राणि न तदवस्थानि किन्तु तत्परिवर्तन सम्पन्नं तथा च तद्भाषापिपरिवृत्तेत्ति वदन्ति केचित्तत्तु न सम्यक साभिप्रायमेकाक्षरपरिवत्तनेऽपि जैनाचार्या महत्पापं स्वीकुर्वन्ति “हीणक्खरं अचक्खरं पयहीण"मित्यादिना हीनाक्षरादिपाठे ज्ञानातिचारा दर्शिताः, ज्ञानातिचाराश्च ज्ञानावरणीयादिकमबन्धहेतव इत्यक्षरपरिपतनेऽप्येतावान् दंषस्तदा भावपरिवर्तने भाषापरिवर्तने तु महान् दोषः परमेष्ठिमंत्रमात्रस्य भाषापरिवर्त्तने सिद्धसेनदिवाकरस्य गुरुभिर्महत्प्रायश्चित्तं दत्तमिति वार्ताऽऽघालं प्रसिद्धा, तत्तत्कालीनाचार्यपरम्परायाः स्खलनयोचारणापाटवेन च तत्परिवर्तनं जातमित्यपि वक्तुं न शक्यते पूर्वधारिणामाचार्याणामस्मदाद्यपेक्षयाधिकबुद्धिपाटवात् । प्रमादे न कस्यचित् स्खलनासम्भवे न सर्वेषां स्खलनातादृश स्वल्पस्खलनया पाठान्तरसम्भवेऽपि सर्वथा भाषायाः परिवतनमशक्यं, भाषापरिबत्तनं तु तदेव स्याद्यदि स्त्राणां भापान्तरमनुवादो वा कृतःस्यात्तथा सतितेषां ग्रंथान्तरत्वे सम्पने मत्रत्वमपगतं स्यात् । न चेष्टापत्तिः प्रामाण्यभङ्गादतिशघज्ञानिनां वचनानामेव प्रामाण्यस्वीकारात् । न चार्षभाषायां Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 328