________________
सिद्धहैमाष्टमाध्याये श्रीमद्वेमचन्द्रसूरिरपितदेव वक्ति"पोराणमद्धमागहभासानिययं हवइ सुत्तं"
सूत्राणि ह्यर्थरूपेण तीर्थकरोपदिष्टानि सूत्ररूपेण च गगाधर ग्रथितानि यदुक्तं-"अत्थं भासइ अरहा सुत्तं गथति गणहरा निउणं" तीर्थकरस्योपदेशोऽर्द्धमागधीभाषायामिति स्पष्टं तथा गणधराणां सूत्ररचनाऽपि तस्यामेवार्द्धमागधीभा. पायां भवति । यत्तु तीर्थकरगणधराभ्यां सूत्रेष्यर्द्धमागधीमाषायां रचितेष्वपि सूत्रलेखनकालपर्यन्तं तानि सूत्राणि न तदवस्थानि किन्तु तत्परिवर्तन सम्पन्नं तथा च तद्भाषापिपरिवृत्तेत्ति वदन्ति केचित्तत्तु न सम्यक साभिप्रायमेकाक्षरपरिवत्तनेऽपि जैनाचार्या महत्पापं स्वीकुर्वन्ति “हीणक्खरं अचक्खरं पयहीण"मित्यादिना हीनाक्षरादिपाठे ज्ञानातिचारा दर्शिताः, ज्ञानातिचाराश्च ज्ञानावरणीयादिकमबन्धहेतव इत्यक्षरपरिपतनेऽप्येतावान् दंषस्तदा भावपरिवर्तने भाषापरिवर्तने तु महान् दोषः परमेष्ठिमंत्रमात्रस्य भाषापरिवर्त्तने सिद्धसेनदिवाकरस्य गुरुभिर्महत्प्रायश्चित्तं दत्तमिति वार्ताऽऽघालं प्रसिद्धा, तत्तत्कालीनाचार्यपरम्परायाः स्खलनयोचारणापाटवेन च तत्परिवर्तनं जातमित्यपि वक्तुं न शक्यते पूर्वधारिणामाचार्याणामस्मदाद्यपेक्षयाधिकबुद्धिपाटवात् । प्रमादे न कस्यचित् स्खलनासम्भवे न सर्वेषां स्खलनातादृश स्वल्पस्खलनया पाठान्तरसम्भवेऽपि सर्वथा भाषायाः परिवतनमशक्यं, भाषापरिबत्तनं तु तदेव स्याद्यदि स्त्राणां भापान्तरमनुवादो वा कृतःस्यात्तथा सतितेषां ग्रंथान्तरत्वे सम्पने मत्रत्वमपगतं स्यात् । न चेष्टापत्तिः प्रामाण्यभङ्गादतिशघज्ञानिनां वचनानामेव प्रामाण्यस्वीकारात् । न चार्षभाषायां
Aho ! Shrutgyanam