Book Title: Ishavasyopanishad Bhavarth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णो त्रिपादरूपेण, रत्नत्रयीनिवेदनम् । कृतं कर्मबलेनैव,-बलिरुपस्यवर्णनम् ॥ जलरूपेण चारित्र,-वर्णनं दश्यते शुभम् । पृथ्वीरूपकयोगेन,-सम्यग्दर्शनवर्णनम् ॥ मेघरूपकयोगेन,-मोहादिकर्मवर्णनम् ब्रह्मरूपकयोगेन, जीवसत्ताप्रवर्णम् ॥ रुद्ररूपकयोगेन, भावप्राणप्रवर्णनम्, शुद्धात्माऽस्ति महादेवो, ज्ञानलिंगादिचिह्नवान् । कर्मप्रकृतिमायादि,-जडव्यस्य वर्णनम् असदादिस्वरूपेण, वेदोपनिषदादिषु ॥ यज्ञा पराऽऽत्मनः पूजा, ज्ञानं दानं चशक्तयः। परोपकारता सेवा, सर्वसंघस्य पालनम् ॥ ब्रह्मचर्यादिसद्योगा, गुर्वादीनां च सेवनम् पुण्यधर्मप्रवृत्तीनां, यज्ञरूपेण वर्णनम् ।। यज्ञो ब्रह्म महाशक्ति, विश्वलोकस्यरक्षणम् , धाचारविचाराणां, योगाङ्गानां च यज्ञता ॥ बृहस्पतिस्वरूपेण, वीतरागो जिनेश्वरः ख्यापितो ज्ञानिरूपेण, वरुणः सद्गुर्महान् ॥ सर्वाऽऽत्मनां समूहेन, विरादेवस्यवर्णनम् । आत्मनां विश्वरूपेण, खल्विदं ब्रह्मवर्णनम् ।। उत्पतिः सर्ग एवास्ति, व्ययोलयस्य रूपके । द्रव्यस्य ध्रौव्यरूपेण, महासत्ता प्रदर्शिता ॥ सर्वात्मसु व्ययोत्पति. धौव्यंचासत्सदादितः जडद्रव्येषु च ज्ञेयं, रूपकेन प्रवर्णनम् ॥ आत्मानो द्विविधाज्ञेया मुक्ताः संसारिणस्तथा । कर्मदेहादियोगेन, संसारिण स्त्वनेकधा ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360