Book Title: Hemchandrika Vyakaranam Author(s): Vijaylavanyasuri Publisher: Gyanopasak Samiti View full book textPage 6
________________ मता विजयलावण्यसूरीश्वरेण श्रीसिद्धहेमव्याकरणस्य पोषकाणि निरवद्यानि अनेकलक्षपद्यप्रमितानि प्रभूतानि पुस्तकरत्नानि रचितानि । अनेन च व्याकरणजीवातुना श्रीमता सर्वदा शास्त्राध्यवसायवता सूरिणा श्रीसिद्धहेमशब्दानुशासनस्य शब्दमहार्णवन्यासानुसन्धानमपि निरमायि । ततश्च ससुगन्धस्वर्णमिव सौन्दर्यमासाद्य श्रीसिद्धहेमशब्दानुशासनं साधारणानामपि मनोमोदमादधाति । इदानीमनेन महात्मना महामनीषिणाऽनेकविधव्याकरणसाहित्यन्यायागमादिग्रन्थसंपादनसंजातानुभवगुणवता मनीषिमण्डले परां प्रतिष्ठा प्राप्तवता व्याकरणवाचस्पतिना वृद्धवैयाकरणेन सकलजनसम्प्रदाये अन्यात्रापि च सौकर्येण ज्ञानाय सूत्रवृत्त्यादिभेदमपनीय सर्वथा नूतनमेव श्रीसिद्धहेमशब्दानुशासनस्य स्वल्पं सुन्दरं स्वरूपं समुपस्थापितमस्ति । ___ अन्वर्थनामध्येयस्य श्रीगुरुसेवासंलग्नस्य मनीषिमुनिवरस्य श्रीमनोहरविजयस्य सविनयविज्ञप्त्या संपाPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 156