________________
मता विजयलावण्यसूरीश्वरेण श्रीसिद्धहेमव्याकरणस्य पोषकाणि निरवद्यानि अनेकलक्षपद्यप्रमितानि प्रभूतानि पुस्तकरत्नानि रचितानि । अनेन च व्याकरणजीवातुना श्रीमता सर्वदा शास्त्राध्यवसायवता सूरिणा श्रीसिद्धहेमशब्दानुशासनस्य शब्दमहार्णवन्यासानुसन्धानमपि निरमायि । ततश्च ससुगन्धस्वर्णमिव सौन्दर्यमासाद्य श्रीसिद्धहेमशब्दानुशासनं साधारणानामपि मनोमोदमादधाति ।
इदानीमनेन महात्मना महामनीषिणाऽनेकविधव्याकरणसाहित्यन्यायागमादिग्रन्थसंपादनसंजातानुभवगुणवता मनीषिमण्डले परां प्रतिष्ठा प्राप्तवता व्याकरणवाचस्पतिना वृद्धवैयाकरणेन सकलजनसम्प्रदाये अन्यात्रापि च सौकर्येण ज्ञानाय सूत्रवृत्त्यादिभेदमपनीय सर्वथा नूतनमेव श्रीसिद्धहेमशब्दानुशासनस्य स्वल्पं सुन्दरं स्वरूपं समुपस्थापितमस्ति । ___ अन्वर्थनामध्येयस्य श्रीगुरुसेवासंलग्नस्य मनीषिमुनिवरस्य श्रीमनोहरविजयस्य सविनयविज्ञप्त्या संपा