________________
( २ ) कारुणिकः स्याद्वाददर्शनमार्गप्रशस्तकरोतिमप्रतिभासंपन्नः स्वनामधन्यः कलिकालसर्वज्ञो भगवान् श्रीहेमचन्द्राचार्यः सुलभं सुन्दरं सर्वाङ्गपरिपूर्ण गुर्जरेश्वरश्रीसिद्धराजजयसिंहभूपतेरनुनयात् संस्कृतप्राकृतोभ- . यभाषाव्युत्पादकं श्रीसिद्धहेमचन्द्रशब्दानुशासनं नाम व्याकरणरत्नं जग्रन्थ । यस्याध्ययनेन सपदि सरलतया चारुतरं शब्दज्ञानं संप्राप्य शिशुरपि शुद्धाशुद्धविवेकी कस्मिन्नपि शास्त्र विना क्लेशं प्रवेशं प्राप्तुं प्रभवति ।
अथ संस्कृतभाषा कठिना, रुग्णा, मृतेत्यादिरूपान् पाश्चात्यरांग्लभाषाप्रेमपरैः प्रवत्तितान् मिथ्याप्रवादान् दूरीकर्तुङ्कटिबद्धेषु विद्वत्सु प्रधानतमेन तत्रभवता जैनाचार्येण शासनसम्राट्-जगद्गुरु-सूरिचकचक्रवत्ति-तपोगच्छाधिपति-विद्वद्वन्दावतंसाऽनेकतीर्थोद्धारकाचार्यदेवेशभीविजयनेमिसूरीश्वरपट्टालंकारेण साहित्यिकशिरोमणिना नवव्याकरणवनविहरणशीलकेशरिणा सर्वदर्शनाध्ययनपरिशीलनसंजातशुवष्टिना साशरशेखरेण श्री.