Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 12
________________ श्रीमद् — देवविमलगणि-- विरचितम् । हीर सौभाग्य- महाकाव्यम् स्वोपज्ञया व्याख्यया समलङ्कृतम् । गूर्जरभाषानुवाद -- सुशोभितम् । द्वितीय भाग : 5 नवमः सर्गः । अथ सा त्रिदशी सूरिपुरहूतपुरो व्यभात् । मुक्तिसीमन्तिनीमुक्तदूतीय विवरीषया ॥ १ ॥ अथ ध्यानविधानसमये पुरः प्रत्यक्षागमनानन्तरं सा पूर्वव्यावर्णितस्वरूपा त्रिदशी शासनदेवता सूरिषु पुरहूतः पुरंदरो हीर विजयसूरीन्द्रस्तस्य पुरोऽभ्यासे व्यभाद्विभाति स्म उत्प्रेक्ष्यते-- मुक्तिः सिद्धिरेव सीमन्तिनी अत्रार्थात्स्वयं वरवनिता अथ वा कामुकी अन्या सामान्या वशा तया मुक्ता प्रेषिता दूती शासनहारिकेव । ' शासनहारिणा हरेः' इति रघौ । किं चिकीर्षया । विशेषेण महामहपुरःसरं वरीतुं पाणिं गृहीतुमिच्छया परिणयनाभिलाषेण ॥ શ્લેાકા ત્યારબાદ આચાય પુરંદરની આગળ પ્રત્યક્ષ થયેલી શાસનદેવી, મહેાત્સવ પૂર્વોક પરણવાની અભિલાષાથી મુકિતરૂપી સ્ત્રીએ મેાકલેલી જાણે ક્રૂતી (સ ંદેશવાહિકા) ન હોય तेवी शोले छे. ॥१॥ वाग्विलासैः सृजन्तीव हारहूरावहेलनाम् । तृणतां च नयन्तीव निकणं वेणुवीणयोः ॥ २ ॥ पिकीव पञ्चमोद्गारमृतोः सख्युर्मनोभ्रुवः । गीर्वाणगृहिणी वाणी श्रमणेन्दोः पुरोऽग्रहीत् ॥३॥ सा गीर्वाणगृहिणी शासनसुरी श्रमणेन्दोर्मुमुक्षुक्षणदारमणस्य पुरः पुरस्ताद्वाणीं वाचमग्रीज्जग्राह । वचनमुवाचेत्यर्थः । केव । पिकीव । यथा कोकिला मनोभुवः स्मरस्य सख्युमिंत्रस्य ऋतोर्वसन्तस्य । 'सखा रतीशस्य ऋतुर्यथा वनम्' इति नैषधे । तथा 'जयति मधुसहायः सर्वसंसारवल्ली' इति चम्पूकथायाम् । पुरः अग्रे पञ्चमोद्वारं पञ्चमनाम्रा श्रीराग - वसन्तराग पञ्चमराग- भैरवराग - मेघमल्हारराग- नट्टनारायणराग - पतेषु षट्स्वपि रागेषु प्रायो विलासिनां पुंसां पञ्चमरागो वल्लभः स्यात् । अतः पञ्चमनाम्नी रागस्योद्गार

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 482