________________
श्रीमद् — देवविमलगणि-- विरचितम् ।
हीर सौभाग्य- महाकाव्यम्
स्वोपज्ञया व्याख्यया समलङ्कृतम् । गूर्जरभाषानुवाद -- सुशोभितम् । द्वितीय भाग :
5
नवमः सर्गः ।
अथ सा त्रिदशी सूरिपुरहूतपुरो व्यभात् । मुक्तिसीमन्तिनीमुक्तदूतीय विवरीषया ॥ १ ॥
अथ ध्यानविधानसमये पुरः प्रत्यक्षागमनानन्तरं सा पूर्वव्यावर्णितस्वरूपा त्रिदशी शासनदेवता सूरिषु पुरहूतः पुरंदरो हीर विजयसूरीन्द्रस्तस्य पुरोऽभ्यासे व्यभाद्विभाति स्म उत्प्रेक्ष्यते-- मुक्तिः सिद्धिरेव सीमन्तिनी अत्रार्थात्स्वयं वरवनिता अथ वा कामुकी अन्या सामान्या वशा तया मुक्ता प्रेषिता दूती शासनहारिकेव । ' शासनहारिणा हरेः' इति रघौ । किं चिकीर्षया । विशेषेण महामहपुरःसरं वरीतुं पाणिं गृहीतुमिच्छया परिणयनाभिलाषेण ॥
શ્લેાકા
ત્યારબાદ આચાય પુરંદરની આગળ પ્રત્યક્ષ થયેલી શાસનદેવી, મહેાત્સવ પૂર્વોક પરણવાની અભિલાષાથી મુકિતરૂપી સ્ત્રીએ મેાકલેલી જાણે ક્રૂતી (સ ંદેશવાહિકા) ન હોય तेवी शोले छे. ॥१॥
वाग्विलासैः सृजन्तीव हारहूरावहेलनाम् ।
तृणतां च नयन्तीव निकणं वेणुवीणयोः ॥ २ ॥ पिकीव पञ्चमोद्गारमृतोः सख्युर्मनोभ्रुवः । गीर्वाणगृहिणी वाणी श्रमणेन्दोः पुरोऽग्रहीत् ॥३॥
सा गीर्वाणगृहिणी शासनसुरी श्रमणेन्दोर्मुमुक्षुक्षणदारमणस्य पुरः पुरस्ताद्वाणीं वाचमग्रीज्जग्राह । वचनमुवाचेत्यर्थः । केव । पिकीव । यथा कोकिला मनोभुवः स्मरस्य सख्युमिंत्रस्य ऋतोर्वसन्तस्य । 'सखा रतीशस्य ऋतुर्यथा वनम्' इति नैषधे । तथा 'जयति मधुसहायः सर्वसंसारवल्ली' इति चम्पूकथायाम् । पुरः अग्रे पञ्चमोद्वारं पञ्चमनाम्रा श्रीराग - वसन्तराग पञ्चमराग- भैरवराग - मेघमल्हारराग- नट्टनारायणराग - पतेषु षट्स्वपि रागेषु प्रायो विलासिनां पुंसां पञ्चमरागो वल्लभः स्यात् । अतः पञ्चमनाम्नी रागस्योद्गार