Book Title: Hasta Sajjivanama Author(s): Meghvijay Publisher: Mohanlalji Jain Granthamala Indore View full book textPage 9
________________ ३ दिग्विजयमहाकाव्यम् ५ चन्द्रप्रभाव्याकरणः ( ३ ) ४ मेघदूत समस्यालेखः ६ युक्तिप्रबोध नलः सितच्छत्रितकीर्तिमण्डलः क्षमापति प्रापयशः प्रशस्यताम् ॥ ४ ॥ द्विधापि धर्मानुगतिर्महीपतिदृढावधे शैशव एव शेवधिः । क्रमेण चक्रीविजये दिशांजिनः सराारी रासीन्महसां महोज्वलः ॥ ५ ॥ कविनासतासमयस्तु न दर्शितः किन्तु प्रतिसर्गान्तेऽयं दृश्यते "C गच्छाधीश्वरही रही र विजयनाम्ना निकायेधियां | प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्येगणे ॥ शिष्यप्राज्ञमणेः कृपादिविजयस्या शास्य मानाग्रणी । चक्रे वाचकनाम मेघविजयः शस्यां समस्यामिमाम् || ६ | एतेन सुलालितपद्येन विनिश्चियते यदस्य समयः श्रीविजयप्रभसूरि समय समकालः, अत्र विषमस्थले टिपनीकाऽपि दीयते— श्रीविविध जैनसाहित्यशास्त्रमालायां सप्तमाङ्केन प्रकाशितः । ३ त्रयोदशसर्गात्मकोऽयं ग्रन्थः । सर्वेषु महाकाव्येषु प्रथमंगण्यते, कवीश्व रेण सुललितमनोमुग्धपद्येन रचितः । किन्तु रचना समयस्तु न प्रकाशितः ग्रन्थे श्री विजयप्रभसूरि जीवनरेखा वर्णितास्ति । ४ यदा ग्रन्थकर्ता विहारं कुर्वन् दक्षिणदेशान्तर्गत औरंगाबादनगरे चातुसस्थितिञ्चकार । तदा द्विपबन्दराख्ये ( दीव ) नगरे चातुर्मासिकस्थित श्रीगच्छावीश्वरविजयप्रमसूरेर्निकट विज्ञप्तिपत्ररूपेण प्रेषितोऽयमुल्लेखः श्रीकविकालिदासविरचितमेघदूतकाव्यस्यान्तपादसमस्यापूर्तिस्वरूपोन्वर्थनाम्ना सुललितभाषायां वर्णितः । अयं श्री भावनगर आत्मानन्द जैनसभायां मुद्रितः । ५ अस्मिन् ग्रन्थे कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य निर्मितानि सिद्धहेम व्याकरणस्य सूत्राभ्यष्ठाध्यायि परिपाटिन्त्यक्त्वा प्रयोगसिध्यनुसारेण व्यवस्थापितानि । अष्ट सहस्रश्लोक प्रमाणोऽयं ग्रन्थः । तत्समयस्तु वीक्रमीय १७५७ तमो वर्षः आगरा नगरे रचितायं ग्रन्थः ; महेसाणा श्रीयशोविजय जैनपाठशालाद्वारा मुद्रितः । ६ अध्यात्मविषयकोऽयं ग्रन्थः | अस्मिन् ग्रन्थे ॐ नमः सिद्धमित्यस्य पदस्य व्याख्या, तथा जपध्यानादिविधिरपि समुल्लेखितास्ति || ग्रन्थ निर्माण समयः वीक्रमीय १७१४ तमो वर्षः धर्मनगरे रचितः । " Aho Shrutgyanam"Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 322