Book Title: Haribhadrasuri ka Samaya Nirnay
Author(s): Jinvijay
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 73
________________ ( ६८ ) बिन्दुटीका, पीटर्सन द्वारा सम्पादित, पृ० २१) विनिश्चयटीकामेव च परार्थानुमानलक्षणे 'त्रिरूपस्य लिङ्गस्य यदाख्यानं तत्परार्थमनुमान मिति ।' च व्याचक्षाण इत्यक्षुण्णं ते वैचक्षण्यमिति । ( स्याद्वादरत्नाकर, पृ० १०) (३) अपि च भवद्भवनसूत्रणासूत्रधारो धर्मकीर्तिरपि 'न्याय विनिश्चयस्याद्य-द्वितीय-तृतीय-परिच्छेदेषु-'प्रत्यक्षं' कल्पनापोढमभ्रान्तमिति ॥ १॥' 'तत्र स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थदृगिति ॥ २ ॥ 'परार्थमनुमानं तु स्वदृष्टार्थप्रकाशन मिति ।। ३ ।।' त्रीणि लक्षणानि; 'त्रिमिराशुभ्रमणनौयानसङ्क्षोभाद्यनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षमिति ॥१॥' त्रिलक्षणालिङ्गाद्यदनुमेयेऽर्थे ज्ञानं तत्स्वार्थमनुमानमिति ।। २ ॥' 'यथैव हि स्वयं त्रिरूपालिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिज्ञानोत्पिपादयिषता त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति ।३।' च व्याचक्षाणो लक्ष्यस्यैव विधिमकीर्तयत्, तथा 'लक्ष्यलक्षणभावविधानवाक्ये' इत्युपक्रम्य लक्षणमेव विधीयत इत्यभिदधानः कथं न स्ववचनविरोधमवबुध्यसे । ( स्याद्वादरत्नाकर, पृ. ११.) (४) बलदेवबलं स्वीयं दर्शयन्ननिदर्शनम् । वद्यधर्मोत्तरस्यैवं भावमत्र न्यरूपयत् ।। ( स्याद्वादरत्नाकर पृ. ११.) (५) वृद्धसेवाप्रसिद्धोऽपि ध्रुवन्नेवं विशङ्कितः । - बालवत्स्यादुपाल्लभ्यस्त्रविद्यविदुषामयम् ।। तथाहि --सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचालतया तुल्यस्वरूपयोरपि व्युत्पत्तिव्यवहारकालयोरतुल्यतामुपकल्पयन् बाल इवैकामप्यगुलिं वेगवत्त या चचलयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते विद्य कोविदः । ( स्याद्वादरत्नाकर, पृ. १२.) १६) यच्चावाचि 'अत एवत्यादि' तत्रायमाशयः, लक्ष्यं हि प्रसिद्धमनुवाद्यं भवतीत्यस्माद् भूतविभक्तयो द्वितीयाद्याः समुपादीयन्ते लक्षणं पुनरप्रसिद्ध विधेयमित्यतो भव्यविभक्तिः प्रथमैव प्रयुज्यत इति । . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80