Book Title: Haribhadrasuri Granth Sangraha Author(s): Jain Granth Prakashak Sabha, Publisher: Jain Granth Prakashak Sabha View full book textPage 5
________________ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥१६॥ सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥१७ इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ १८ प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९ प्रयाणभङ्गाभावेन निशि वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२० मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥२१ करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥२२ जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ २३ चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः। संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ॥२४॥ FANARASARASHTRA १ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २ खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः॥ युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥१॥३ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः॥ परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥१॥ Jain Education Intan For Personal & Private Use Only oww.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 258