Book Title: Haribhadrasuri Granth Sangraha Author(s): Jain Granth Prakashak Sabha, Publisher: Jain Granth Prakashak Sabha View full book textPage 7
________________ %ACACAX | नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया। किं सम्यग् रूपमादत्ते कदाचिद्मन्दलाचनः ॥ ३६ ॥ अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्धयर्थं वृत्त्यैवायं तथा हिते ॥ ३७ यथाप्रवृत्तिकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥३८ अपूर्वासन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ ३९ ॥ प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥ तारायां तु मनाक्स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥ ४१ ॥ भवत्यस्यां तथाऽच्छिन्ना प्रीतियोगकथास्वलम् । शुद्धयोगेषु नियमाद्बहुमानश्च योगिषु ॥ ४२ ॥ यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः । योगिनां नियमादेव तदनुग्रहधीयुतः ॥४३॥ लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ॥४४॥ भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥ कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले संत्रासो द्वेषवर्जितः ॥ ४६ ॥ ARRORISSA Jain Education in 2 For Personal & Private Use Only RAww.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 258