SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ %ACACAX | नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया। किं सम्यग् रूपमादत्ते कदाचिद्मन्दलाचनः ॥ ३६ ॥ अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्धयर्थं वृत्त्यैवायं तथा हिते ॥ ३७ यथाप्रवृत्तिकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥३८ अपूर्वासन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ ३९ ॥ प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥ तारायां तु मनाक्स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥ ४१ ॥ भवत्यस्यां तथाऽच्छिन्ना प्रीतियोगकथास्वलम् । शुद्धयोगेषु नियमाद्बहुमानश्च योगिषु ॥ ४२ ॥ यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः । योगिनां नियमादेव तदनुग्रहधीयुतः ॥४३॥ लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ॥४४॥ भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥ कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले संत्रासो द्वेषवर्जितः ॥ ४६ ॥ ARRORISSA Jain Education in 2 For Personal & Private Use Only RAww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy