________________
*
=
मित्रादृष्टि स्वरूपम्॥
=
****
॥२॥
=
=
=
योगदृष्टि-18 उपादेयधियाऽत्यन्तं संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ २५ ॥ समुच्चयः॥
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ २६ ॥ भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥ २७ ॥ लेखना पूजना दानं श्रवणं वाचनोग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥ २८ ॥ बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया । तदुपादेयभावश्च परिशुद्धो महोदयः ॥ २९ ॥ एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत्कार्य न यत्कचित् ॥ ३०
चरमे पुद्गलावर्ते क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहृतम् हा दु:खितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ॥ ३२॥
एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥ ३३ योगक्रियाफलाख्यं यच्छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् । ॥३४॥ एतच्च सत्प्रणामादिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाल्पता ।
=
********
=
=
=
=
*
=
Jain Education Intl
For Personal & Private Use Only
4
w.jainelibrary.org