SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥१६॥ सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥१७ इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ १८ प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९ प्रयाणभङ्गाभावेन निशि वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२० मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥२१ करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥२२ जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ २३ चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः। संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ॥२४॥ FANARASARASHTRA १ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २ खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः॥ युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥१॥३ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः॥ परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥१॥ Jain Education Intan For Personal & Private Use Only oww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy