________________
तारादृष्टि
योगदृष्टिसमुच्चयः॥
स्वरूपम्॥
॥३॥
दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम्। चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ? ॥ ४७ ॥ नास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४८॥ सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥४९ ॥ नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥ ५ ॥ अत्वरापूर्वकं सर्व गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः
॥५१॥ कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२ ॥ बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ ५३ ॥ श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४ ॥ शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥५५॥ परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥ ५६ ॥ प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥५७ ॥
******************
***
Jain Education
For Persons & Private Lise Only
Saw.jainelibrary.org