Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 8
________________ तारादृष्टि योगदृष्टिसमुच्चयः॥ स्वरूपम्॥ ॥३॥ दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम्। चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ? ॥ ४७ ॥ नास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४८॥ सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥४९ ॥ नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥ ५ ॥ अत्वरापूर्वकं सर्व गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥५१॥ कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२ ॥ बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ ५३ ॥ श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४ ॥ शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥५५॥ परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥ ५६ ॥ प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥५७ ॥ ****************** *** Jain Education For Persons & Private Lise Only Saw.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 258