Book Title: Gyansaranu Tattvadarshan
Author(s): Yashovijay Upadhyay, Malti K Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 171
________________ (१२) निःस्पृहाष्टकम् , स्वभावलाभात् किमपि प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसंपन्नो, निःस्पृहो जायते मुनिः ॥ | १ || संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः । अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् ||२|| छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः I मुखशोषं च मूर्च्छा च, दैन्यं यच्छति यत्फलम् ।।३।। निष्कासनीया विदुषा, स्पृहा चित्तगृहाद् बहिः । अनात्मरतिचाण्डालीसंगमङ्गीकरोति या ।।४।। स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् । महाश्चर्यं तथाप्येते, मज्जन्ति भववारिधौ ||५|| गौरवं पौरवन्द्यत्वात्, प्रकृष्टत्वं प्रतिष्ठया । ख्याति जातिगुणात् स्वस्य, प्रादुष्कुर्यान्न निःस्पृहः ||६|| भूशय्या भैक्षमशनं, जीर्णं वासो गृहं वनम् । तथाऽपि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ॥१७॥ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ ८ ।। જ્ઞાનસારનું તત્ત્વદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198