Book Title: Gyansaranu Tattvadarshan
Author(s): Yashovijay Upadhyay, Malti K Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
(३१) तपोऽष्टकम्
ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः । तदाभ्यन्तरमेवेष्टं बाह्यं तदुपबृंहकम् ।।१।।
आनुश्रोतसिकी वृत्तिर्बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ।।२।।
धनार्थिनां यथा नास्ति, शीततापादि दुस्सहम् । तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि ।।३।।
सदुपायप्रवृत्तानामुपेयमधुरत्वत: ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् ।।४।।
इत्थं च दुःखरूपत्वात्, तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धिबौद्धानन्दापरिक्षयात् ।।५।।
यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते ।।६।।
तदेव हि तप: कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ।।७।।
मूलोत्तरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान्महामुनिः ।।८।।
'IHAR अष्ट४' – भूण Pati
173 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198