Book Title: Gyansaranu Tattvadarshan
Author(s): Yashovijay Upadhyay, Malti K Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 176
________________ (१७) निर्भयाष्टकम् यस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः । । तस्य किं न भयभ्रान्तिक्लान्तिसन्तानतानवम् ।।१।। भवसौख्येन ... किं. भूरिभयज्वलनभस्मना । सदा भयोज्झितज्ञानसुखमेव विशिष्यते ।।२।। न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् । क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यत: ।।३।। एकं ब्रह्मास्त्रमादाय, निघ्नन् मोहचमूं मुनिः ।। बिभेति नैव संग्रामशीर्षस्थ इव नागराट् ।।४।। मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां, न तदाऽऽनन्दचन्दने ।।५।। कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः ।। क्व भीस्तस्य क्व वा भङ्गः, कर्मसंगरकेलिषु ।।६।। तूलवल्लघवो मूढा, भ्रमन्त्यभ्रे भयानिलैः । नैकं रोमापि तैर्ज्ञानगरिष्ठानां तु कम्पते ।।७।। चित्ते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य तस्य साधोः कुतो भयम् ।।८।। 'शानसार अष्ट' - भूग eist 159 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198