________________
(१७) निर्भयाष्टकम्
यस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः । । तस्य किं न भयभ्रान्तिक्लान्तिसन्तानतानवम् ।।१।।
भवसौख्येन ... किं. भूरिभयज्वलनभस्मना । सदा भयोज्झितज्ञानसुखमेव विशिष्यते ।।२।।
न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् । क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यत: ।।३।।
एकं ब्रह्मास्त्रमादाय, निघ्नन् मोहचमूं मुनिः ।। बिभेति नैव संग्रामशीर्षस्थ इव नागराट् ।।४।।
मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां, न तदाऽऽनन्दचन्दने ।।५।।
कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः ।। क्व भीस्तस्य क्व वा भङ्गः, कर्मसंगरकेलिषु ।।६।।
तूलवल्लघवो मूढा, भ्रमन्त्यभ्रे भयानिलैः । नैकं रोमापि तैर्ज्ञानगरिष्ठानां तु कम्पते ।।७।।
चित्ते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य तस्य साधोः कुतो भयम् ।।८।। 'शानसार अष्ट' - भूग eist
159
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org