________________
(१६) माध्यस्थ्याष्टकम्
स्थीयतामनुपालम्भ, मध्यस्थेनान्तरात्मना ।। कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् ।।१।।
मनोवत्सो युक्तिगवीं, मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन, तुच्छाग्रहमन:कपिः ।।२।।
नयेषु स्वार्थसत्येषु, मोघेषु परचालने । .. समशीलं मनो यस्य, स मध्यस्थो महामुनिः ।।३।।
स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः । न रागं नापि च द्वेष, मध्यस्थस्तेषु गच्छति ।।४।।
मनः स्याद् व्यापृतं यावत्, परदोषगुणग्रहे ।। कार्यं व्यग्रं वरं तावन्मध्यस्थेनात्मभावने ।।५।।
विभिन्ना अपि पन्थान:, समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् ।।६।।
स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । . न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ।।७।।
मध्यस्थया दृशा सर्वेष्वपुनर्बन्धकादिषु । चारिसंजीविनीचारन्यायादाशास्महे हितम् ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન
158 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org