________________
(१८) अनात्मशंसाष्टकम्
गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसया ।।१।।
श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भ:प्रवाहतः । पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? ।।२।।
आलम्बिता हिताय, स्युः परैः स्वगुणरश्मयः । अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ।।३।।
उच्चत्वदृष्टिदोषोत्थस्वोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ।।४।।
शरीररूपलावण्यग्रामारामधनादिभिः उत्कर्षः परपर्यायश्चिदानन्दघनस्य कः
?
।।५।।
शुद्धा: प्रत्यात्मसाम्येन, पर्याया: परिभाविता: । अशुद्धाश्चापकृष्टत्वाद्, नोत्कर्षाय महामुनेः ।।६।।
क्षोभं गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः । गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा ? ।।७।।
निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्तयः योगिनो गलितोत्कर्षापकर्षानल्पकल्पना: ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન
160
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org