Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 13
________________ [ है० १.१.१.] प्रथमः सर्गः । . चुलुक्यस्यादिक्षत्रियविशेषपुरुषस्यायं "तस्येदम्" [६. ३. १६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाचुलुकस्तस्यापत्यं वृद्धं गर्गादित्वाद्यजि [६. १. ४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तद्भद्रायुष्य." [२. २. ६६.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पञ्चम्यादिपरोपि । तेनात्रास्त्विति ज्ञेयम्। आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । क्लुप्तस्याद्वादसि. द्धय इति । स्यादित्यसक्धातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्यय: । अत्र तु भीमकान्तेति विशेषणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तिर्गृह्यते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यत्वानित्यत्वाद्यनेकधर्मशबलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्बिप्रलम्बोद्दण्डपाण्डुरपताकायमानोनेकान्तवादः। सिद्धिनिष्पत्तिोपनं वा । क्लृप्ता निर्मिता स्याद्वादस्य सिद्धिर्येन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा घातुकाः शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मैः सहैक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधो रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं बाध्यमानो भंसते । यत उक्तम् । दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः । विरोधोनुपलम्भो हि यतो जैनमते मतः ॥ यदि ह्येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि'. ३ सी डी धिर्विचा. ४ एफ कान्तासं°. ५ सी डी न्तवादसिद्धिनिष्पत्तिज्ञापनवृ. ६ बी त्वाद्य. ७ सी डी लाविल. ८ सी डी त्मिकादी. ९ सी डी धो भा. १० सी डी भेणे बा. ११ सी डी भ्रंशते. १२ सी डी रोधानु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 828