________________
[ है० १.१.१.]
प्रथमः सर्गः ।
. चुलुक्यस्यादिक्षत्रियविशेषपुरुषस्यायं "तस्येदम्" [६. ३. १६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाचुलुकस्तस्यापत्यं वृद्धं गर्गादित्वाद्यजि [६. १. ४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तद्भद्रायुष्य." [२. २. ६६.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पञ्चम्यादिपरोपि । तेनात्रास्त्विति ज्ञेयम्। आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । क्लुप्तस्याद्वादसि. द्धय इति । स्यादित्यसक्धातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्यय: । अत्र तु भीमकान्तेति विशेषणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तिर्गृह्यते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यत्वानित्यत्वाद्यनेकधर्मशबलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्बिप्रलम्बोद्दण्डपाण्डुरपताकायमानोनेकान्तवादः। सिद्धिनिष्पत्तिोपनं वा । क्लृप्ता निर्मिता स्याद्वादस्य सिद्धिर्येन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा घातुकाः शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मैः सहैक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधो रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं बाध्यमानो भंसते । यत उक्तम् ।
दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः ।
विरोधोनुपलम्भो हि यतो जैनमते मतः ॥ यदि ह्येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि'. ३ सी डी धिर्विचा. ४ एफ कान्तासं°. ५ सी डी न्तवादसिद्धिनिष्पत्तिज्ञापनवृ. ६ बी त्वाद्य. ७ सी डी लाविल. ८ सी डी त्मिकादी. ९ सी डी धो भा. १० सी डी भेणे बा. ११ सी डी भ्रंशते. १२ सी डी रोधानु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org