________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
यथा कश्चित्स्वस्वामिना प्रेषिते लिखिते समायाते स्वामिनीवान्तरङ्गं बहुमानं प्रकटयन् स्वामिनि सातिशयां प्रीतिं प्रकाशयत्येवं परमेष्ठिनो वाचकमर्हमिति प्रणिदधत् श्रीहेमचन्द्रसूरिमुख्ये प्रणिधेयेर्हति सातिशयं प्रणिधानं ख्यापितवान् । येन हि यस्य नामापि ध्यातं तेन स नितरां ध्यात इति यथोक्तमेव साधु । तथा सर्वपार्षदत्वादस्य काव्यस्य सर्वदर्शनानुयायी नमस्कारो वाच्य इत्यर्हशब्देन परमेष्ठिशब्देन च हरिहर - ब्रह्माणोपि व्याख्येयः । यथा परमेष्ठिनो हरेर्हरस्य ब्रह्मणश्च वाचकममिति प्रणिदध्महे । अर्हशब्दस्य ह्येते त्रयोपि वाच्याः । यदुक्तम् ।
अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः ।
हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ।। इति ।
शेषं प्राग्वव्याख्येयम् ॥
अर्हम् । इत्यनेन शब्दानुशासन सूत्रादिस्थः “अर्हम् " [१] इति नमस्कारः सूचितः । अक्षरं ब्रह्मेत्यादिना च तद्वृत्तिः सूचिता ॥
अथैतत्काव्यनायकवंशमाशीर्वादपूर्वं प्रशंसन्नाह । भीमकान्तोद्धतोदात हिंस्रशान्तगुणात्मने । भद्रं चौलुक्यवंशाय क्लृप्तस्याद्वाद सिद्धये ॥ २ ॥
२. चौलुक्यवंशाय चुलुके संध्यावन्दनाय विधात्राम्बुना भूते हस्ते भवो “दिगादिदेहांशाद्यः [ ६. ३. १२४ . ] इति ये चुलुक्यः । उक्तं च । अयोग्या मातङ्गाः परिगलितपक्षाः क्षितिभृतो जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुः क्षितिविधृतये सांध्यचुलुकात्समुत्तस्थौ कश्चिद्विलसदसिपट्टः स सुभटः ॥
१ सी 'षितलेखि. डी 'षिते लेखि '. २ बी 'वान्तरं बसी 'वान्तरं प्र. ३ बी 'मिति. ४ सी डी याः । ते य. ५ सी डी 'क्यः । यदुक्तम् 1. ६ ए टुः सुसु'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org