________________
ब्याश्रयमहाकाव्ये मूलराजः ] पुरुषे पुत्रत्वपितृत्वे स्थूलत्वकृशत्वे लघुत्वमहत्त्वे न घटेयाताम् । अथैकोपि पुमान्स्वजनकापेक्षया पुत्र: स्वपुत्रापेक्षया जनकः स्थूलापेक्षया कृशः कृशापेक्षया स्थूलो महदपेक्षया लघुर्लघ्वपेक्षयों च महानिति विषयभेदेन विरुद्धधर्मा अप्येते घदन्ते तदत्रापि समानम् । तथाहि । शत्रूनुद्दिश्य भीमगुणत्वं प्रजासु कान्तगुणत्वं दर्पिष्ठेषूद्धतगुणत्वं पूज्येषूदात्तगुणत्वं व्यसनिषु हिंस्रगुणत्वं कृपापात्रेषु शान्तत्वं चेति । एवं च प्रत्यक्षसिद्धभीमकान्तगुणाद्यनेकधर्मात्मकेनानेन चौलुक्यवंशेन दृष्टान्तभूतेन नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगमरूपस्याद्वादसिद्धिविधानपूर्वकं दर्शनान्तरीयाणां बौद्धसांख्यादीनामेकान्तानित्यत्वैकान्तनित्यत्वादिवादेषु स्याद्वादस्यैव न्याय्यत्वं सूचितम् । अत एव श्रीहेमचन्द्रसूरेयंतिमौलेराशीर्वादा)यं वंश इति । तिनो हि धार्मिकं विनान्यस्य प्रशंसायां दोषसंभवः ।। स्थाद्वादसिद्धये । इत्यनेन “सिद्धिः स्याद्वादात्" [२] इति सूत्रार्थः सूचितः । अथान्येभ्योधिकेन येने गुणेनायं वंशोत्र काव्ये वर्ण्यस्तं प्रकर्षयन्नाह ।
लोकात्सालातुरीयादेः शब्दसिद्धिरिवानघा । चौलुक्यवंशाजयति नयधर्मव्यवस्थितिः ॥३॥ ३. चौलुक्यवंशात् “गम्ययपः कर्मचारे" [२.२.७४.] इति कर्मणि पञ्चमी । चौलुक्यवंशं प्राप्य नयधर्मव्यवस्थितिर्नयो न्यायो धर्मोहिंसादिद्वन्द्वे तयोर्व्यवस्थितियवस्था सम्यक्प्रतिपाल्यमानत्वेन न विद्यतेचं दुःखं व्यसनं पापं वा यस्यां सानघा श्रेयसी सती जयति सर्वोत्कर्षेण वर्तते । यथा सालातुरीयादेर्लोकात् सलातुर आभिजनो निवासोस्य "सलातुरादीयण" [६.३. २१६.] इतीयणि सालातुरीयः पाणिनिस्तत्प्रभृतिम् । आदिपदादिन्द्रचन्द्रशाकटायनादिवैयाकरणानां श्रीसिद्धसेनमल्लवादिहरिभद्रसू
१ सी डी म् । यथै . २ सी डी या म'. ३ सी डी एफ जामुदिश्य का . ४ सी डी त्वं पू. ५ सी डी न येन गु. ६ ए एफ यस्याः सा. ७ सी डी एफ त् साला. ८ सी डी एफ “साला'. ९ सी डी ति आदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org