SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ [ है ० १.१.३. ] प्रथमः सर्गः । रिप्रभृतितार्किकाणां च परिग्रहः । लोकं वैयाकरणसमयविदं प्रमाणविदं च प्राप्य शब्दसिद्धिः साधुशब्दनिष्पत्तिरनघासाधुत्वदोषरहिता सती जयति । अथवात्र श्लोक इहेत्यध्याहार्यम् । सिद्धिव्यवस्थित्य - पेक्षया च गम्ययत्वम् । ततोयमर्थः । सालातुरीयादिलोकमाश्रित्य यानघा शब्दसिद्धिर्थे प्रयोगार्हाः शब्दाः सिद्धाः सा यथेह प्रबन्धे जयति । इयं हि काव्यफला काव्ये चात्र शब्दानुशासनक्रमानतिक्रमेण निबध्यमानेषु शब्देषु स्वफलप्रायोत्कर्षवती भवति तथा चौलुक्यवंशं प्राप्य यानघा नयधर्मव्यवस्थिति: सेह प्रारभ्यमाणे प्रबन्ध आधारे जयति । इयं चानघत्वेन स्वयमेवोत्कृष्टाप्यस्मिन्काव्ये निबध्यमाना विशेषेणोत्कृष्टा भवतीत्यर्थः । भवति हि विशिष्टाधारकृतो विशेषो यथा राजा सर्वाङ्गभूषितोपि रूपपात्रमपि यदास्थानमण्डपे सिंहासनमध्यारोहति तदान्यां कां चन शोभां लभत एवमत्रापीति । अत्र च व्याख्याने लोकात्सालातुरीयादेरित्यत्र शब्दसिद्धिः सामान्योक्तावपि श्रीहेमचन्द्रसूरिकृतात्र काव्ये - भिधेयत्वेनावबोध्या स्वोपज्ञतया तत्क्रमानतिक्रमेणैवात्र सिद्धशब्दानां प्रयोगात् । एतेन चास्य काव्यस्य स्वोपज्ञशब्दानुशासनसंसिद्धशब्देवौलुक्यनयधर्मव्यवस्थित्या च सहाभिधानाभिधेयलक्षणः संबन्ध उक्तः । प्रयोजनं च सिद्धानां शब्दानां काव्यविषयं प्रयोगज्ञानम् । नयधर्मव्यवस्थितिज्ञानं चानन्तरम् । परंपरं च सिद्धशब्दप्रयोगज्ञानेभीष्टदेवतादिस्तुत्यादिक्रमेण नयधर्मव्यवस्थितिज्ञानेन च नयधर्मानुष्ठानादिक्रमेण निःश्रेयसमुक्तम् । तथास्य द्वयोराश्रयत्वाद् व्याश्रय इत्यन्वर्थं नामपि व्यञ्जितम् ॥ लोकात् । इत्यादिना "लोकात् " [३] इति सूत्रार्थः सूचितः ॥ ३ एफ् स्वमे. ४ सी डी १ सी डी 'दं च. मात्र . ५ बी सी डी २ सी डी न प्र सिद्धेः सा ६ सी . क्यवंशस्य न डी 'क्यवंश्यस्य न . ७ एफ्रेंच. ८ सी डी त्या क्र. ९ एकू स्थितिः । ज्ञा १० बी त्यर्थना. सीना ११ मातिव्य Jain Education International 4 For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy