SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] अथ श्रीसिद्धहेमचन्द्राख्यशब्दानुशासनानुसारेण प्रयोगजातं दर्शयन यत्र चौलुक्यवंशो नयधर्मव्यवस्थित्या राज्यमपालयत्तत्पुरमाह । अस्ति स्वस्तिकवद्भूमेर्धर्मागारं नयास्पदम् । श्रिया सदाश्लिष्टं नाम्नाणहिलपाटकम् ॥ ४ ॥ 3 ४. नाम्नाणहिलपार्टकमणहिलपाटकाख्यं पुरं नगरमस्ति । कीदृशम् । धर्मोहिंसादिर्धर्मं दानादिर्वा । धर्मधर्मिणोरभेदोपचाराद्धर्मस्य धर्मवतामगारं गृहमत एव पूर्ववदभेदान्नयस्य न्यायवतामास्पदं स्थानं यत एव धर्मागारं नयास्पदं चात एव च श्रिया धनधान्यद्विपदचतुष्पदादिमहय लक्ष्मीदेश्रम एवँ च भूमेः सागराम्बरायाः स्वस्तिकमिव यथा स्वस्तिकेनाढ्यवेश्मवेदिकालंक्रियते तथा येन सर्वापि भूर्भूष्यत इत्यर्थः । यच्च पुरं शरीरं धर्मागारं धर्मस्य पूर्वोपार्जितसुकृतस्यागारं नयस्य चास्पदं भवति तत्सद श्रिया लक्ष्म्यालिष्टं भवतीत्युक्तिलेशः । पूर्व किल वनराजराजेन नवपुरविधित्सया प्रधानभूमिखण्डगवेषणार्थं विचरतैकदारण्यमध्ये गवादींश्चारयन्नणहिलो नाम गोपालो दृष्टस्तदग्रे च चित्ताभिप्रायो निवेदितस्तेनापि तत्कार्यकरणार्थं शकुनगवेषणं कुर्वतैकत्र प्रदेशे शृगालो बलिष्ठकुकुरं निर्धाटयन् दृष्टस्तत्रैव चाणहिलेन वनराजराजः पुरनिंवेशं स्वनाम्ना कारित इति लोकश्रुतिः । आदिमध्यावसानमङ्गलानि हि शास्त्राण्यायुष्मच्छ्रोतृकाणि मतिमच्छ्रोतृकाणि च भवन्तीत्यर्हमिति प्रणिधानेन सर्वमङ्गलश्रेष्ठे भावमङ्गले विहितेपि लोकरूढिमनुसरन्नस्तिस्वस्तिकेति शब्देन द्रव्यमङ्गलमपि न्यस्तवान् । नाम्नेत्यत्र करणे तृतीया ॥ 9 99 १ एफ् सदा श्रियाचि. १ सी डी श्रीहे . २ सी डी टकाख्यं. ३ बी सी डी एफ 'दिर्दाना ४ बी लक्ष्म्या दे. ५ ए या°ि ६ सी डी व भू. ७ बी दाहि . ९ सी डी गोवालो. १० ए बी सी एफ् नि भूषिता इ. ८ सी ११ बी णिभ, Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy