SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [ है० १.१.३.] प्रथमः सर्गः । अथैतदेव पुरं धर्मार्थकामोपनिबद्धवर्णनाभिस्त्रिंशेन शतेन श्लोकैवर्णयति । धर्मार्थकामवर्णना यथायथं स्वयमेवाभ्यूह्याः । सपनाविधीहाभिः श्रीदे॒त्रानुपतीष्यते । मधूत्तमं वधूढाभिः सभ्रूत्क्षेपं मृदूरुभिः ॥५॥ ५. श्रिया सर्वसमृद्ध्ये भासुरेत्र पुरे मृदूरुभिः कोमलसक्थीभिर्वधूढाभिर्वध्वो योषितो या ऊढा: पाणिगृहीत्यस्ताभिरनुपति भर्तृसमीप उत्तम पत्या स्वयं दीयमानत्वेन प्रेमकन्दलोद्भेदकत्वाद्मनोज्ञं मधु मद्यमिष्यते । कथम् । सह भ्रुवोरुत्क्षेपेणोपहासाय चालनेनास्ति यत्तत्सभ्रूत्क्षेपं यथा स्यादेवम् । यतः सपत्नीनां येा परसंपत्तौ चेतसो व्यारोषस्तस्या विधिः करणं तत्रेहाभिलाषो यासां ताभिः । यथायथा सपत्न्यः प्रियकृततथाविधप्रेमसंपत्तिं पश्यन्त्यो गाढतरेर्ण्यया म्लायन्ति तथातथा वधूढा भ्रूत्क्षेपेणोपहस्य मधु पिबन्तीत्यर्थः ।। उमाभवृषभस्कन्धा मातापिवृषिपूजकाः । नृभर्तृऋषमा अस्मिन्नासन्पितृणवर्जिताः ॥ ६॥ ६. नृभर्तृऋषभा नृणां भर्तारः स्वामिनो नृभर्तारो रौजानस्तेषु ऋषभा मुख्या राजाधिराजा वनराजादयोस्मिन् पुर आसन् । एतेनास्य पुरस्य चिरंतनतोक्ता । कीदृशाः । उमाभर्ता शंभुस्तस्य ऋषभो बलीवदस्तत्स्कन्धवत्स्थूलबलिष्ठाः स्कन्धा येषां ते । तथा मातापितृ(?)षिपूजका माता च पिता च मातापितरौ तौ च ऋषयश्च तेषां पूजका अर्चकाः । याज १ एफ ना. There is here an evident omission of intermediate letters. २ बी पित अ. ३ एफ मं मधु प. ४ ए °लोद्रेक. ५ ए पेणाप. ६ सी रोपंत. ७ बी धिः कार. ८ सी कृतं त . डी कृतां त°. ९ The commentary in Ms. C. begins with. उमाभता शंभुः. १० डी नो रा. ११ एफ राजन. १२ ए बी एफ स्य चि. १३ एफ तनोक्ताः ।. १४ एफ °स्तस्य स्क. १५ सी डी रौ च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy