Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 11
________________ MY [ है० १.१.१.] प्रथमः सर्गः । अर्हमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्धीजं सर्वतः प्रणिदध्महे ॥ १॥ १. अहमिति वर्णसमुदायं सर्वतः सर्वस्मिन्क्षेत्रे काले च प्रणिध्महे । आत्मानं ध्यायकं बीजमध्ये न्यस्तं संश्लेषेणार्हकारैर्येयैः सर्वतो वेष्टितं चिन्तयामः । यद्वा । अहंशब्दवाच्येन भगवतार्हता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीदृशम् ।निर्मुक्तात्मकत्वात्परमे पदे सिद्धिलक्षणे तिष्ठति । “परमारिकत्' इत्यौणादिके कितीनि “भीरुष्ठानादयः" [२.३.३३.] इति षत्वे गणपाठसामर्थ्यात्सप्तम्या अलुपि परमेष्ठी तस्य परमेष्ठिनो भगवतोर्हतो वाचकं प्रतिपादकमत एवाक्षरं ब्रह्माभिधानाभिधेययोरभेदोपचारादचलं ज्ञानं परमज्ञानस्वरूपपरमेष्ठिवाचकमित्यर्थः । यद्वा । अक्षरमिति भिन्नं विशेषणं ब्रह्मेति च । ततोक्षरं शाश्वतमेतदभिधेयस्य भगवतः परमपदप्राप्तत्वेनाविनश्वरत्वाद्ब्रह्म च परमज्ञानस्वरूपम् । यद्वा । अक्षरस्य मोक्षस्य हेतुत्वादक्षरं ब्रह्मणो ज्ञानस्य हेतुत्वाच्च ब्रह्मात एव च सिद्धचक्रस्य सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यत्रकविशेषस्तत्र सत् आद्यत्वेन प्रधानं बीजं तत्त्वाक्षरम् । स्वर्णसिद्ध्यादिमहासिद्धिहेतोः सिद्धचक्रस्य पञ्च बीजानि वर्तन्ते तेष्विदमायक्षरमित्यर्थः । तेन स्वर्णसिद्ध्यादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अत एव चेदं ध्यानाहमित्यर्थः । नन्वहमित्यस्य योभिधेयः स एव प्रणिधेयत्वेन मुख्यः । अहमिति शब्दस्त्वहद्वाचकत्वेन प्रणिधानार्हत्वाद्गौणः । गौणं च मुख्यानुयायीति मुख्यस्यैव प्रणिधानं कर्तुमुचितम् । एवं चाहमित्यक्षरं ब्रह्मवाच्यं श्रीपरमेष्ठिनं सिद्धचक्रादिबीजेन सर्वतः प्रणिदध्मह इति कार्यं स्यात् । अत्र चैवमन्वयः। सिद्धचक्रादिबीजेनाहमित्यनेन वाच्यं परमेष्ठिनं प्रणिदध्मह इति । नैवम् । १ सी डी ता ध्ये'. २ सी डी ध्याया. ३ एफ ष्ठी अस्य. ४ सी डी रूपं प. ५ सीमेतत. एफ मेव त. ६ सी भव. ७ सी डी नहे. ८ सी डी धमक्ष. ९ बी सी डी एफ थः । एते. १० सी डी सिद्धादि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 828