Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 22
________________ परिशिष्टम् - १B, सम्यक्त्वस्यातिचाराः • अभयस्स कहियं–णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्कक्कं माणुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेंति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया । एयं विउदुगुंछाफलं । ४ - परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा, प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिशष्ट्यधिकानि भवन्ति। यत उक्तम् असीयसयं किरियाणं अकिरियवाईण होइ चुलसीति । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ।।१।। इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते असीयसयं किरियाणं इति अशीत्युत्तरं शतं क्रियावादिनाम्-तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः । ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा: अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेया:- जीवाजीवाश्रव-बन्ध-संवर-निर्जरा-पुण्यापुण्य-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पा: कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायम्- विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालत: कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प: ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वम्' इत्यादि, नियतवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्प: स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पा:, एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । अकिरियवाईण होइ चुलसीतित्ति-अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ।।१।। इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्या:-एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परत: कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । अण्णाणिय सत्तट्ठीत्ति-अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 350