________________
परिशिष्टम् - १B, सम्यक्त्वस्यातिचाराः • अभयस्स कहियं–णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्कक्कं माणुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेंति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया । एयं विउदुगुंछाफलं ।
४ - परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा, प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिशष्ट्यधिकानि भवन्ति। यत उक्तम्
असीयसयं किरियाणं अकिरियवाईण होइ चुलसीति ।
अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ।।१।। इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते
असीयसयं किरियाणं इति अशीत्युत्तरं शतं क्रियावादिनाम्-तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः । ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा: अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेया:- जीवाजीवाश्रव-बन्ध-संवर-निर्जरा-पुण्यापुण्य-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पा: कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायम्- विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालत: कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प: ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वम्' इत्यादि, नियतवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्प: स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पा:, एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति ।
अकिरियवाईण होइ चुलसीतित्ति-अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके
क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ।।१।। इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्या:-एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परत: कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति ।
अण्णाणिय सत्तट्ठीत्ति-अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org