Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ पूर्व कविवरा आसन, प्राप्तश्रीभारतीवराः । क्षीराब्धिसन्निभा ग्रन्या, भूरिशस्तैर्विनिर्मिताः॥२९॥ तेषां हि स्पर्धया ग्रन्ध, कुर्वन् यास्यामि हास्यताम् । इच्छन् सत्फलमूर्धस्थं, गृहीतुमिव वामनः ॥३०॥ स्पृहां कुवें विना नावं, तरीतुं फलकेऽम्बुधिम्। स्वल्पबुद्धिरहं किञ्चित्, धर्मव्याख्याकृतेच्छया ॥ ३१॥ वातोम्नापितपानीयकणानिच्छन्ति वा यथा । ग्रहीतुं कोऽपि वा नीरसंस्थितं चन्द्रमण्डलम् ॥ ३२ ॥ तथाहं मुखरीभूय, मूर्खः स्वल्पश्रुतोऽपि च । नवीनग्रन्थकरणे, कुर्वे वाञ्छांगतत्रपः॥३३॥ तथापि गुरुसानिध्यात्, श्रीसङ्घानुमतेन च । करोमि मुग्धबोधार्थ, सुगम सुकथानकम् ॥ ३४ ॥ क्षन्तव्यं तद्बुधैः सर्वे, मया मूर्खेण यत्कृतम् । दयां विधाय दीनस्य, दोषो वाच्यो न तैः कदा ॥ ३५ ॥ सन्तः स्वभावतो विश्वे, दोषाच्छादनतत्पराः । निर्मिता जगतः कर्ता, महीमण्डनमौक्तिकाः ॥ ३६॥ यतःपूर्वशास्त्रानुमानेन, धर्मकल्पद्रुमाभिधम्। धर्माख्यानमऽथो वच्मि, नवपल्लवसंयुतम् ॥ ३७ ॥ बीजं जीवदया यस्य, सद्वृत्तं कन्द उच्यते । लज्जा स्तम्भो दृढं ज्ञेयः, सद्बुद्धिस्त्वक्प्रकीर्तिता ॥३८॥ दानशीलतपोभावा, मुख्यशाखाचतुष्टयम्। विचाराचारविनयाः, प्रतिशाखाशतं मतम् ॥ ३९ ॥ Jain Education a l For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 434