Book Title: Dharm Kalpadrum Nam Mahakavyam Author(s): Udaydharm Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 3
________________ भार्या भर्तृषु वञ्चनकदृदयाः पुत्राः पितुषिणः, इत्येवं समुपागते कलियुगे धन्यः स्थितिं नो त्यजेत् ॥१५॥ एवं हि विषमे काले, यो धर्म नैव मुञ्चति । स संसारसमुद्रस्य, पारगामी भवत्यलम् ॥ १६ ॥ | यतः श्लोकः-धर्माजन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता। धर्माद्वित्तमनिन्दितं निरुपमा भोगाः सुकीर्तिः सुधीः, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ १७ ॥ यतःबन्धुर्वैरिजनायते गुणवती कान्ता च सर्पायते मित्रं चापि खलायते गुणनिधिः पुत्रोऽप्यमित्रायते श्रीखण्डं दहनायते श्रवणयोः सूक्तं तु शूलायते । जाते पुण्यविपर्यये तनुभृतामर्थोऽप्यनयते ॥१८॥ एवं लोके फलं व्यक्तं, दृश्यते पुण्यपापयोः। विचार्यैतत्ततो धीमान, यथा लाभस्तथाचरेत् ॥ १९ ॥ यतः-कृत्याकृत्य विचारस्य, ज्ञातारः स्वयमुत्तमाः। मध्यमाश्चान्यकथनात, कथंचिन्नाधमाः पुनः ॥२०॥ अन्यच्च-सिंहस्य सारमेयस्य, तुरङ्कस्य खरस्य च । सुवर्णस्य पित्तलस्य, करिणः कासरस्य च ॥ २१॥ Jain Education in For Private Personal Use Only Jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 434