Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ धर्म ४ ॥ तस्मिन्नेव क्षणे तत्र, राजा श्रीहस्तिपालकः । अकस्मादगमद्दक्षः, पापापुर्या नरेश्वरः ॥ ५७ ॥ श्रीवीरागमनं ज्ञात्वा, भूत्वा, प्रमोदमेदुरः। तदा च श्रेणिकः श्रीमान्, आगतो मगधेश्वरः॥१८॥ तत्र त्रयोपि भूपाला, मिलितावीरवन्दने । स्वर्णसौगन्धिकं जातं, हर्षितो नन्दिवर्धनः ॥ ५९॥ यतः-सद्यः प्रीतिकरो नादः सद्यःप्रीतिकरास्त्रियः। सद्यः शीतहरोवह्निः सद्यः पापहरो जिनः॥३०॥ पञ्चाभिगमपूर्वञ्च, दत्वा तिस्रः प्रदक्षिणाः । ते त्रयोऽप्यथ संभूय, वीरपादान ववन्दिरे ॥ ६१॥ दर्शनाद्देवदेवस्य, ते भूपा हृष्टमानसाः । स्तुतिञ्च चक्रिरे भक्त्या, योजयित्वा करौ निजौ ॥ ६२ ॥ सुप्रभातं सुदिवसं, कल्याणं मेऽद्यमङ्गलम् । यद्वीतराग ! दृष्टोऽसि, त्वं त्रैलोक्यदिवाकरः ॥ ६३ ॥ अद्य छिन्ना मोहपाशा, अद्य रागादयो जिताः । अद्य मोक्षसुखजातमद्य ती! भवार्णवः ॥ ६४॥ मनः प्रसन्नं संपन्नं, नेत्रे पीयूषपूरिते । अहं स्नातः सुधाकुण्डे, जिनेन्द्र ! तव दर्शनात् ॥ ६५॥ इति स्तुत्वा जगन्नाथं, कुर्वाणाः सफलं भवम् । उपविष्टा यथास्थानं, यथाक्रमममी नृपाः ॥ ६६ ॥ सुरासुरनूसाधूनां, सभा द्वादशपूरिताः । चतुर्वक्रेण वीरेणे, प्रारेभे धर्मदेशना ॥ ६७ ॥ ॥ ४ ॥ Jain Education a l For Private & Personal Use Only Hjainelibrary.org /9/

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 434