Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
पीयूषमिव सुस्वादु, भाखानिव विबोधकृत् । ज्ञानीव तत्वनिष्णातः, सता वचनविस्तरः ॥ ८४ ॥ सुनृतं करुणाक्रान्तमविरुद्धमनाकुलम् । अग्राह्यं गौरवाश्लिष्टं वचः सद्भिः प्रशस्यते ॥ ८५ ॥ हितं मितं प्रियं स्त्रिधं, मधुरं परिणामि यत् । भोजनं वचनञ्चापि, भुक्तमुक्तं प्रशस्यते ॥ ८६ ॥ सर्वाशुचिनिधानस्य, कृतघ्नस्य विनाशिनः । वर्ण्यते तस्य कायस्य, मूढेन गुणविस्तरः ॥ ८७ ॥ शरीरं व्रणमित्याहुर्भोज्यन्तत्पिण्डबन्धनम् । व्रणप्रक्षालनं स्नानं वस्त्रं स्यात्तस्य पट्टकः ॥ ८८ ॥ कर्पूरकुंकुमागुरुमृगमदहरिचन्दनादिवस्तुनि । भव्यान्यपि संसर्गान्मलिनयन्ति कलेवरं नृणाम् ॥८९॥ सुस्वादं सुसुगन्धिमोदकदधिक्षारेक्षुशाल्योदनम् । द्राक्षापर्पटिकामृताघृतपुरस्वर्गाच्युताम्रादिकम् । भुक्तं यत्सहसैव यन्त्रमलसान्संपद्यते सर्वतः । तं कायं सकलाऽशुचिंशुचिमहो !! मोहान्धता मन्यते ९० एवं विधस्यकायस्य, सारं यत्पुण्यसेवनम् । परोपकारकरणं, व्रताभिग्रहधारणम् ॥ ९१ ॥
यतः - मनोविशुध्धं पुरुषस्य तीर्थं, वाक्संयमश्चेन्द्रियनिग्रहश्च ।
atrयेव तीर्थानि शरीरभाजां स्वर्गं च मोक्षञ्च निदर्शयन्ति ॥ ९२ ॥
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 434