Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रभुः प्रोवाच भो राजन्! श्रूयतां तत्कथानकम् । विस्मयस्तव चित्तस्य, श्रुते यस्मिन्भविष्यति ॥२॥ तथा मध्यगो द्वीपो, जम्बूनामा प्रकीर्तितः । तन्मध्ये प्रथम क्षेत्रं, पवित्रं भरताभिधम् ॥३॥ तन्मध्येऽप्युत्तमो देशः, सारदादेवताश्रितः । काश्मीरः कौतुकैर्युक्तो, विरक्तः पापकर्मतः ॥४॥ चन्द्रवत्प्रोज्वलं यत्र, पुरं चन्द्रपुराभिधम् । श्रीयशोधवलो यत्र, धात्रीशो धर्मवान् शुचिः॥५॥ सुरदेवीसमा देवी, यस्य जज्ञे यशोमती । रूपसौभाग्यशीलादिगुणमाणिक्यभूषिता ॥ ६॥ तत्कुक्षिसरसीहंसो, निर्मलश्च महामतिः । शुद्धपक्षोऽभवद्राज्ञो, नाम्ना चन्द्रयशाः सुतः ॥ ७ ॥ धात्रीभिः पाल्यमानस्तु, हस्ताद्धस्तेषु संचरन् । क्रमेण तनयः सोऽथ, सञ्जातः सप्तवार्षिकः ॥ ८॥ आचार्याय ततो राज्ञा, पठनार्थं समर्पितः । प्राज्ञः पठति सोऽत्यन्तं, पूर्वाधीतमिव श्रुतम् ॥ ९ ॥ व्याकरणं च साहित्य, छन्दोऽलङ्करणं तथा । स्वल्पैरेव दिनैः सर्व, शास्त्रं तेनातिशिक्षितम् ॥ ११० ।। कृतः शकुनशास्त्रेषु, दृढः परिचयस्ततः । निपुणः सर्वशब्देषु, बभूव पशुपक्षिणाम् ॥ ११ ॥ लिखितं पठितं गीतं, नृत्यं वादित्रसंस्कृते । इत्याद्याः शिक्षिता येन, सर्वा द्वासप्ततिः कलाः ॥ १२ ॥
Join Education
a
l
For Private
Personal Use Only
Orainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 434