________________
धर्म
४
॥
तस्मिन्नेव क्षणे तत्र, राजा श्रीहस्तिपालकः । अकस्मादगमद्दक्षः, पापापुर्या नरेश्वरः ॥ ५७ ॥ श्रीवीरागमनं ज्ञात्वा, भूत्वा, प्रमोदमेदुरः। तदा च श्रेणिकः श्रीमान्, आगतो मगधेश्वरः॥१८॥ तत्र त्रयोपि भूपाला, मिलितावीरवन्दने । स्वर्णसौगन्धिकं जातं, हर्षितो नन्दिवर्धनः ॥ ५९॥ यतः-सद्यः प्रीतिकरो नादः सद्यःप्रीतिकरास्त्रियः। सद्यः शीतहरोवह्निः सद्यः पापहरो जिनः॥३०॥ पञ्चाभिगमपूर्वञ्च, दत्वा तिस्रः प्रदक्षिणाः । ते त्रयोऽप्यथ संभूय, वीरपादान ववन्दिरे ॥ ६१॥ दर्शनाद्देवदेवस्य, ते भूपा हृष्टमानसाः । स्तुतिञ्च चक्रिरे भक्त्या, योजयित्वा करौ निजौ ॥ ६२ ॥ सुप्रभातं सुदिवसं, कल्याणं मेऽद्यमङ्गलम् । यद्वीतराग ! दृष्टोऽसि, त्वं त्रैलोक्यदिवाकरः ॥ ६३ ॥ अद्य छिन्ना मोहपाशा, अद्य रागादयो जिताः । अद्य मोक्षसुखजातमद्य ती! भवार्णवः ॥ ६४॥ मनः प्रसन्नं संपन्नं, नेत्रे पीयूषपूरिते । अहं स्नातः सुधाकुण्डे, जिनेन्द्र ! तव दर्शनात् ॥ ६५॥ इति स्तुत्वा जगन्नाथं, कुर्वाणाः सफलं भवम् । उपविष्टा यथास्थानं, यथाक्रमममी नृपाः ॥ ६६ ॥ सुरासुरनूसाधूनां, सभा द्वादशपूरिताः । चतुर्वक्रेण वीरेणे, प्रारेभे धर्मदेशना ॥ ६७ ॥
॥
४
॥
Jain Education
a
l
For Private & Personal Use Only
Hjainelibrary.org
/9/