SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ - काव्यं-आग्नेय्यां गणभृद्विमानवनिता साध्व्यस्तथा नैर्ऋते, ज्योतिय॑न्तरभावनेशदयिता वायव्यगास्तत्प्रिया । इशान्यां च विमानवासि नरनार्यः संश्रिता यत्र तत्, जैनस्थानमिदं रनुत्रिपरिषत्संभूषितं पातु वः ॥ ६८ ॥ भो भव्याः श्रूयतां सम्यक, कृत्वा तु स्थिरमानसम्; । दुर्लभं दशदृष्टान्तर्मानुष्यं चोत्तमं कुलम् ॥६९॥ दुष्प्राप्यं मानुषं कार्य, तत्किञ्चिदुत्तमैजनैः । मुहुर्तमेकमप्यस्य, नैव याति यथा वृथा ॥ ७० ॥ दिवा यामचतुष्केण, कार्यं किमपि तन्नरैः । निश्चिन्तहृदयैर्येन, यामिन्यां सुप्यते सुषम् ॥ ७ ॥ तत्किञ्चिदष्टभिर्मासैः, कार्यं कर्म विवेकिना । एकत्र स्थीयते येन, वर्षाकाले यथासुषम् ॥ ७२ ॥ यौवनं प्राप्य सर्वार्थ, सारसिध्धिनिबन्धनम् । तत्कुर्यान्मतिमान् येन, वार्धके सुषमश्नुते ॥ ७३ ॥ अर्जनीयं कलावद्भिस्तत्किञ्चिजन्मनामुना । ध्रुवमासाद्यते येन, शुध्धं जन्मान्तरं पुनः ॥ ७४ ॥ प्रतिसंवत्सरं ग्राह्य, प्रायश्चित्तं गुरोः पुर । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः ॥ ७५ ॥ । Jan Education tiona For Private Personel Use Only Jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy