________________
महा.
॥५॥
प्रतिवर्ष सहर्षेण निजवित्तानुमानतः । पूजनीयाः सधर्माणो, धर्माचार्याश्चधीमता ॥ ७६ ॥ यतः-सम्यक्त्वं भज मुञ्च कुत्सितमतं मन्यस्व देवं जिनम्,
सत्साधून गुरुतां नय त्यज मदं मा जन्तुनिन्दां कृथाः । माकार्षीः परतप्तिमुत्तमगुणैः सङ्गं सुशीलात्मकै,
रात्मारामतया भजस्व न शिवं दूरे तव स्थास्यति ।। ७७ ॥ मनोवचनकायाश्च, वर्त्तन्ते यस्य निर्मलाः । संसारं स समुत्तीर्य, पारगामी भवत्यलम् ॥ ७८ ॥ यतः-मन एव मनुष्याणां, कारणं वन्धमोक्षयोः । बन्धस्य विषयं सङ्गि, मुक्तनिर्विषयं मनः ॥ ७९ ॥ दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य यस्य शुध्धं न मानसम् ॥ ८॥ स्वजने स्नेहसंबन्धे, रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं, तदा ते परमं सुखम् ॥ ८१ ॥ शब्दादिविषयग्रामे, सुन्दरेऽसुन्दरेऽपिवा । एकाकारं यदाचित्तं, तदा ते परमं सुखम् ।। ८२ ॥ गोशीर्षचन्दनालेपे, वासीछेदकयोर्यदा । अभिन्नचित्तवृत्तिः, स्यात्तदाते परमं सुखम् ॥ ८३ ॥
Jain Education
Icona
For Private Personal Use Only
Now.jainelibrary.org