Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 348
________________ H. Prakrta Grammars Ends - शेष संस्कृतवत् । सिद्धं ... ... ... चतुर्थपादे सर्वसूत्रसंख्या ॥४५॥ दुहराया संख्या ॥ १६५ मिता ॥ अपभ्रंश भाषायामिदं । इति श्रीवूडतपागच्छे श्रीश्रीश्रीसौभाग्यसागरसूरिशिष्येण पं. श्रीहर्षकुलगणिवचःप्राप्तप्रयोगरहस्येन । उदयसौभाग्यगणि[ ना] लिखितायां । हैमप्राकृतवृत्तिदुण्ढिकायां। व्युत्पत्तिदीपिकाभिधानायां । सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशिकायां । चतुर्थः पादः समर्धितः ॥ ४॥ इति श्रीमत्तपागच्छे प्राज्यसाम्राज्यकारकाः। अभुवन् भुवनाख्याताः लष्धि(?)सागरसूरयः॥१॥ तत्पदृप्रगुटांभोजे भेजे ये राजहंसतां। विजयंतेधुना तेऽमी धनरत्नगुरूत्तमाः ॥२॥ श्रीलब्धि( ? )सागराचार्यपरिचर्यानुभावतः । प्राप्तोदया श्रीसौभाग्यसागराः संति सूरयः॥३॥ श्रीहेमविमलसूरीणां शिष्याः ज्ञश्रेणिमंडनाः । श्रीहर्षकुलनामानः पंडिता गुणमण्डिताः ॥४॥ तत्पार्श्वेऽध्यैष्ट सकलं हैमप्राकृतलक्षणं । सर्वप्रयोगे व्युत्पत्तिरहस्यं लब्धवांश्च यः ॥५॥ सोहं सौभाग्यपाथोधिसुगुरूत्तमसेवया। सुधी उदयसौभाग्यः प्रचक्र ढुंढिकामिमाम् ॥ ६ ॥ विश्वजातरिपुवातध्वांतनासनभास्करे। पावीणंदु(?) लसत्कीर्तिधवलीकृतभूतले ॥७॥ प्रणमत्प्रौढप्रध्वीशकोटीरद्योतितक्रमे । बहादुरसुरत्राणे राज्यं पालयति क्षति ॥८॥ युग्मं ।। श्रीस्तंभतीर्थनगरे भूम्यकनिधिसंमिते (१५९१) वर्षे हर्षेण विहितो ग्रंथोयं जयताञ्चिरं ॥९॥ ग्रंथोऽयं नंदतात् तावत् समग्रधरणीतले। सूर्यचंद्रमसौ यावयोकन्मे(?)रुमहीधरे ॥ १० ॥ अज्ञानादथ वा किंचिदनाभोगतयाथवा(?)। यत्किचिल्लिखितं शास्त्रे पूर्ण तत्सोध्यतां बुधा ॥११॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयांति नाशं सर्वत्र सुखी भवतुलोकः ॥ १२॥ ......... नृभर्षिरसभ्यूम्यके वर्षे प्राकृत ढुंढिका । शुभोदाय सौभाग्यसोभेनालेखि चित्कृते ॥१॥ इति प्रशस्तिः।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366