Book Title: Chaturvinshati Jin Stotradwaya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ ३८ अनुसन्धान ४८ अनन्तं नतं नाकनाथैरथैनं, जिनं नौम्यहं प्रेमतस्तं सदेनम् । अनेकान्तवादाविरुद्ध मते ते, पुनर्नाथ ! जीवन्तु ते ये यतन्ते ॥१५।। (भुजङ्गप्रयातं-जगती ।।) यो नराप(न् य)क्षदेवान् नरेन्द्रान् प्रति, देशनां दत्तवान् यत्नतः सन्मतिः । सोऽक्षरं धर्मनाथोऽव्यथो मे मुदा, मङ्गलं यच्छतां (दीयता) निर्मलं सर्वदा ।।१६।। (स्रग्विणी-जगती) प्रभोः पुरो भवन्ति वादविह्वला(ला:), कुवादिनश्च शान्तिनाथ ! निष्फलाः । यतस्ततो जिनेश ! ये त्वदीयका, मनीषिणो भवन्ति ते सुसेवका: ॥१७॥ (वसन्तचामर(रं)-जगती ।।) ये त्वां सदा जिनपते ! भविनो नमन्ति, तेऽशेषभावुकभरा: सुखिनो भवन्ति । तस्माच्च कुन्थुजिन ! ते तव सेवकाय, सौख्यं प्रदेहि परमात्मविचित्रकाय ॥१८॥ (वसन्ततिलका-शर्क(क्व)री ।।) सुरनररमणीनां वल्लभो यो जिनेशः, परममुनिगणीनां ज्ञानभादे(दो) दिनेशः । मथितमदनदर्पोऽष्टादश(शं) प्रस्तुवेऽहं, प्रहतकलुषसर्प-स्तं जिनं वीतमोहम् ॥१९॥ (मालिनी-अतिशर्क(क्व)री ।) प्रफुल्लपद्मनेत्र-चन्द्रचारुवक्त्र-कुम्भजं, जिनं दिनं दिनं प्रति स्तुवे रवेः समत्वचम् । प्रधानमर्त्यपान् प्रबोध्य यो व्रतं समग्रहीदशेषकर्मचक्रहं च तं त्वहं शमाग्रही ॥२०॥ (पञ्चचामर(म्)-अष्टिः।।) वन्दे वन्द्यं दमशमधरं सारहीराधरन्तं, श्रीजैनेन्द्रं सुरनरनतं सुव्रतं सत्वमन्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8