Book Title: Chaturvinshati Jin Stotradwaya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229335/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जून २००९ चतुर्विंशतिजिन स्तोत्रद्वय सं. मुनिसुयशचन्द्र - सुजसचन्द्रविजयौ जैन साहित्यमा २४ जिनेश्वरसम्बन्धी लघुकृतिओ अंगे तपास करता प्राकृत- संस्कृत- अपभ्रंश - मरुगुर्जर वगेरे भाषामां निबद्ध थयेल अनेक रचनाओ जोवा मळे छे. ते रचनाओ चतुर्विंशतिजिनस्तुति - चतुर्विंशतिजिनस्तोत्र - चतुर्विंशतिजिनस्तव-चतुर्विंशतिजिननमस्कार - स्तोत्रकोश - स्तुतिचतुर्विंशतिका- चतुर्विंशतिका जेवां नामोथी ओळखाय छे. तेमांनी केटलीक कृतिओ तो वर्द्धमानाक्षरछन्दबद्ध - प्रश्नोत्तरगर्भचित्रकाव्यमय-यमकादिअलङ्कारमय - नानाछन्दोमय-वस्तुछन्द - शार्दूलविक्रीडित जेवा मोटा छन्दबद्ध होय छे. वधु करीने (प्रायः) वर्तमान चोवीशीना भगवाननी १२-३ पद्योनी जोवा मळे छे. केटलीक कृतिओमां तो ५ के ७ पद्योमां ज २४ जिनस्तवना कवि पूर्ण करता होय छे. स्तोत्रादि साहित्य सिवाय कलिकालसर्वज्ञ हेमचन्द्राचार्य कृत त्रिषीष्टशलाकापुरुषचरित्र, लालर्षि ( लोकागच्छीय) कृत महावीरचरित्र जेवा ग्रन्थोमां अने केटलाक विज्ञप्तिपत्रोमा नमस्कारमंगळ स्वरूपे २४ जिनस्तुतिपद्यो जोवा मळे छे. अहीं पण नवप्राप्त २ कृतिओने सम्पादित करी छे. (१) अज्ञातकर्तृक चतुर्विंशतिजिनस्तोत्र २७ श्लोकमां रचायेल संस्कृतभाषाबद्ध कृति कृतिकारनी कदाच शरूआतनी रचना होई यमक (अन्त्यानुप्रास) मेळवता केटलाक पद्योमां व्याकरण समास के शब्दप्रयोगमां खामी जणाय छे. श्लोक १०, ११, १२ अने १४ मां तो कवि छन्दनुं नाम पण समाविष्ट कर्तुं छे. हस्तप्रतमां श्लोकना अन्ते छन्दना नाम पछी तेनी अक्षरगणना मुजबना वर्ग ( ? ) नुं नाम पण आप्युं छे. प्रत भावनगर - श्रुतज्ञान प्रचारक सभानी छे. अक्षर सुवाच्य छे. पत्र संख्या १ छे. (२) दीप्तिविजय कृत चतुर्विंशतिजिनस्तोत्र प्रस्तुत कृति १ मंगळप्रतिज्ञा पद्य + २४ जिनस्तुति पद्यो + १ प्रशस्ति पद्य ओम कुल २६ श्लोकनी रचना छे. दरेक जिनस्तुतिमां कोईने कोई युक्तिपूर्वक परमात्मानुं गुणाधिक्य ३५ — - - Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान ४८ बताव्युं छे. आ रचनामां पण पूर्वनी पेठे केटलाक मूळपद्यमां - केटलाक अर्थमा शंका रहे छे. पद्य ३-मन्दाक्रान्ता छन्द, पद्य - १६/२३ - ईन्द्रवज्राछन्द, पद्य-२६ शार्दूलविक्रीडित छन्द छोडी शेष सर्वे पद्यो उपजाति-छन्दना छे. कर्ता तेजविजयजीना शिष्य मानविजयजीना शिष्य दीप्तिविजयजी छे. तेमणे सं. १७४९ मां आसो सु. १५ ना दिवसे पोताना शिष्य धीरविजयजीनी ईच्छाथी 'मंगळकळश रास' रच्यानी नोंध 'जैन गुर्जर कविओ' भा. ५ मां छे. तेमां तेमणे पोतानी गुरुपरम्परा 'तपा. विजयदानसूरि - राजविमल उपा.मुनिविजयवाचक-देवविजयवाचक-मानविजयपण्डित (वाचक) एम जणावी छे. सं. १७४९ मां रचायेल 'कयवन्ना रास' नामक कृति पण जैन गूर्जर कविओ भा. ५ मां तेमना नामे ज नोंधायेल छे. तेमां कर्ता- नाम 'दीपविजय' छे. गुरुपरम्परा बंने कृतिओ (मंगळकळश रास कयवन्ना रास)मां सरखी छे कदाच 'दीपविजय' ज 'दीप्तिविजय' तरीके ओळखाता होय अq पण होई शके. प्रत सुरत-नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिरनी छे. अक्षर सुवाच्य, पत्र संख्या २ छे. श्रीचतुर्विंशतिजिनस्तोत्रम् ॥ ६ ॥ श्री गुरवे नमः || श्रीदेवाचितं देवं, सेव्यं सज्जनजनौघकैनित्यम् । कृत्यं किल्विषमुक्तं, नौमि जिनं नाकनाथनतम् ॥१॥ (गाथा।।) चक्रे चक्रैश्वरीशोऽसौ, सान्तं जन्तोर्जगत्यहो ! तं नाथं वृषभं नौमि, यश्चात्यन्तं करिष्यति ॥२॥ (श्लोकः ॥) जिनेन्द्रचन्द्र ! ते स्तवं, नवं रचन्त्यरं नराः । परां रमां लभन्ति ते, मते स्थिताश्च तेऽजित ! ॥ (प्रमाणिका-ऽनुष्टुप् ।।) सम्भवो भवतु मे मुदा, श्रीजिनो विजयदः सदा । ये नरा नरप ! ते नता-स्ते त्वहो ! विभवतामिताः ॥४॥ (भद्रिका-बृहती ।।) Page #3 -------------------------------------------------------------------------- ________________ जून २००९ स्तौमि जिनं वक्षःस्थलवत्सं, मार्यपहं श्रीसंवरवत्सम् । सर्वविदं विश्वेश्वरवीरं, कर्मकलापापातनधीरम् ।।५।। (रुक्मवती-पङ्क्तिः ॥) सौमङ्गल्यं शुभमतियुक्तं, वन्दे वन्द्यं कलुषविमुक्तम् । स्वर्गिसेव्यं सुमतिजिनेन्द्र, विश्वज्ञेयं यतिजनचन्द्रम् ।।६।। (मत्ता-पङ्क्तिः ।) सौरेन्द्रचन्द्रार्चितपादपा(द्म!), पापप्रमुक्ताखिलसौख्यसा । सौसीम ! ये त्वां प्रणमन्ति भक्त्या, भवन्ति तेऽहःप्रतिराष्ट्रयुक्ताः ।। (इन्द्रवज्रा-ऽनु(त्रि)ष्टुप् ।।) पवित्रपादं प्रणमाम्यपापं, प्रभुः कुहेवाककुशास्त्रलापम् । प्रतिप्रकृष्टोत्तरदानदक्षः, यस्तस्य सौपार्श्वविभोः सुपक्षः ।।८।। (उपेन्द्रवज्रा- ऽनु(त्रि)ष्टुप् ॥) यो जिनमौनिमुनीश्वरसार अष्टमको हतदुष्टविकारः । तीर्थचतुष्कसुसेवितमूर्ति, नौम्यपवर्गगतं श्रुतकीर्तिम् ॥९॥ (दोधका-ऽनु(त्रि)ष्टुप् ॥) मौक्तिकमालाविकसितगात्रै- कनरेन्द्रैर्मुनिमुनिपात्रैः नौमि नतं तं नवमममोहं, जैनपमेनं प्रतिहतमोहम् ॥१०॥ (मौक्तिकमाला-ऽनु(त्रि)ष्टुप् ।।) अनेकगुणि(ण)गणमौक्तिकदाम, सदा मदमर्दित ! तर्जितकाम ! जिताखिलकर्मसपत्ननिकाय ! विभो ! दशमेश ! ममाऽस्तु सुखाय ॥११॥ (मौक्तिकदाम-जगती ।।) इह तोटककाव्यविदं सततं, दशमं जिननायकमेकयुतम् । प्रणमामि निरामयमेनमहं, सकलामलकेवलकं मलहम् ॥१२॥ (तोटकं-जगती ॥) विशदपक्षकृतादरसारकं, विकटकर्मकलापविदारकम् । विमलकेवललं वसुपूज्यकं, तमुत नौमि च तत्पदपङ्कजम् ।।१३।। (द्रुतविलम्बितं-जगती ।।) विमलजिनेनाऽऽगमकरप्रोक्ता(ता), तव गुणमाला कुसुमविचित्रा । विलसति माला वररमणीनां, हृदि पुनरेषा श्रम[ण] गुणीनाम् (?) ॥१४॥ (कुसुमविचित्रा-जगती ॥) Page #4 -------------------------------------------------------------------------- ________________ ३८ अनुसन्धान ४८ अनन्तं नतं नाकनाथैरथैनं, जिनं नौम्यहं प्रेमतस्तं सदेनम् । अनेकान्तवादाविरुद्ध मते ते, पुनर्नाथ ! जीवन्तु ते ये यतन्ते ॥१५।। (भुजङ्गप्रयातं-जगती ।।) यो नराप(न् य)क्षदेवान् नरेन्द्रान् प्रति, देशनां दत्तवान् यत्नतः सन्मतिः । सोऽक्षरं धर्मनाथोऽव्यथो मे मुदा, मङ्गलं यच्छतां (दीयता) निर्मलं सर्वदा ।।१६।। (स्रग्विणी-जगती) प्रभोः पुरो भवन्ति वादविह्वला(ला:), कुवादिनश्च शान्तिनाथ ! निष्फलाः । यतस्ततो जिनेश ! ये त्वदीयका, मनीषिणो भवन्ति ते सुसेवका: ॥१७॥ (वसन्तचामर(रं)-जगती ।।) ये त्वां सदा जिनपते ! भविनो नमन्ति, तेऽशेषभावुकभरा: सुखिनो भवन्ति । तस्माच्च कुन्थुजिन ! ते तव सेवकाय, सौख्यं प्रदेहि परमात्मविचित्रकाय ॥१८॥ (वसन्ततिलका-शर्क(क्व)री ।।) सुरनररमणीनां वल्लभो यो जिनेशः, परममुनिगणीनां ज्ञानभादे(दो) दिनेशः । मथितमदनदर्पोऽष्टादश(शं) प्रस्तुवेऽहं, प्रहतकलुषसर्प-स्तं जिनं वीतमोहम् ॥१९॥ (मालिनी-अतिशर्क(क्व)री ।) प्रफुल्लपद्मनेत्र-चन्द्रचारुवक्त्र-कुम्भजं, जिनं दिनं दिनं प्रति स्तुवे रवेः समत्वचम् । प्रधानमर्त्यपान् प्रबोध्य यो व्रतं समग्रहीदशेषकर्मचक्रहं च तं त्वहं शमाग्रही ॥२०॥ (पञ्चचामर(म्)-अष्टिः।।) वन्दे वन्द्यं दमशमधरं सारहीराधरन्तं, श्रीजैनेन्द्रं सुरनरनतं सुव्रतं सत्वमन्तम् । Page #5 -------------------------------------------------------------------------- ________________ जून २००९ यः सर्वेषां बत तनुभृतां चाऽनुकम्पां विधत्ते, सो मे दद्यादतुलममलं सौख्यवृन्दं समन्तात् ॥२१॥ जिनाधीशं धीशं समरसयुतं सारप्रेक्षं स्तवीमि, नमिं नित्यं स्तुत्यं पुनरपि कदे नाम पद्मे रमामि । अरं भृङ्गोऽहं ते मम मनसि वा ध्यानपूतीकृते वा, तवाऽधीशाह्वानं रमति सततं चञ्चरीकाकृतिर्वा ॥२२॥ (मन्दाक्रान्ता - ऽत्यष्टि ( : ) | ) ३९ (मेघविस्फूर्जिता-ऽतिधृति(:)।।) येनेयं कमलाक्षिचन्द्रवदना राजीमती कन्यका, त्यक्त्वा यादववंशजेन शिशुना राट्पुत्रिका धन्यका । वन्द्यः सन् परमां रमां व्रतमयीं जग्राह यश्चा (श्च) र्षिपः, सो ( ? ) मे नेमिजिनो दिनं प्रति सुखं दद्यात् प्रदिव्यकृपः ||२३|| (शार्दूलविक्रीडित (म्) - अतिधृतिः ॥ ) यश्चैतच्छाठ्यं कमठशठमतेर्निर्दयस्याऽधमा (?) तु (नुः) प्राग् राज्ये पार्श्वः स्वजनजनयुतः स्पष्टयन् दुष्टमुच्चैः । सन्द (न्दं) शैर्नागं लकुटपुटगतं विश्वसन्तं समस्तं, पश्चाच्चारित्रं सकलजनहितं प्रागृहीत् तं स्तवीमि ॥ ३४ ॥ श्रीवीरं साधुनाथं सकलसुमतिनः स्तुत्यमाराधयामि, येनैतत्पापवृन्दं कषमदनभरं निर्जितं तं स्तवीमि । नित्यं वैराग्यसारं रविकिरणनिभां भां स्वकाये धरन्तं, कैवल्यं प्राप्य मुक्तावसृपदमलकं तं त्वहं कीर्तिमन्तम् ॥ २५ ॥ (पुष्पदाम (मा) - ऽतिधृति (:) (1) (स्रग्धरा प्रकृति (:) |) इति समक - यमकयुक्तं, व्यक्तं काव्यैर्मनोहरैः स्तोत्रम् | जगति चराचरजन्तोः, सुखदं रविचन्द्रवज्जयति ||२६|| ( आर्या || ) जगति च ध्यायन्ति स्तुत्यान् तच्चेतसो जिनान्ने (ने) तान् । सर्वेऽप्युत्कटसुखिनो भवन्ति वा कीर्तिमन्तस्ते ||२७|| ( आर्या ॥) ॥ इति चतुर्विंशतिजिनस्तोत्रम् ॥ Page #6 -------------------------------------------------------------------------- ________________ ४० . अनुसन्धान ४८ तपा. दीप्तिविजयप्रणीतं श्रीचतुर्विंशतिजिनस्तोत्रम् ॥६०॥ ऐं नमः ॥ श्रीशारदां सद्वरदां प्रणम्य, नत्वा गुरूणां चरणारविन्दम् । स्तवीमि नाभेयजिनेन्द्रमुख्यान्, संसारपाथोनिधिपोततुल्यान् ॥१॥ चेतो दृढं मेऽभिलषत्यजस्रं, त्वद्दर्शनं चन्द्रसुदर्शनीयम् । वरेण्यमर्हन्निव वाञ्छितार्थं, नाभेय ! नेतः ! कमनीयकान्ते ! ।।२।। एषैकस्मिन् तव सुरुचिरा रूपलक्ष्मी(:) त्वयीव, पौलोमीशेषु न बहुषु सद्धाम ! मातङ्गलक्ष्म ! चन्द्रे ज्योत्स्ना जगति हि यका चक्षुरानन्दकारी, प्रोद्यज्ज्योतिर्जितखग ! न सा वर्तते तारकेषु ।।३।। श्रीसम्भवासः सुखसम्भवः सः शिवाय नित्यं जगतां त्रयाणाम् । यत्पादपद्येऽङ्कमिषाद्धयेनो-द्यम: कृतः त्यक्तुमिवाशु गौ(गो)त्वम् ॥४।। सर्वज्ञनामस्मरणाज्जनानां, प्रयान्ति मिथ्यात्वविषाणि नाशम् । शाखामृगाङ्काऽधिककायकान्ते, मन्त्रात् पराज्जाङ्गुलिकादिवाऽहे. ॥५॥ सिंहासने हेममये स्थितः सन्, विभ्राजते श्रीसुमतिजिनेन्द्रः । शृङ्गे प्रबर्हे स्म यथोदयायो-दयाचलस्यागत उष्णरश्मिः ॥६।। पद्मप्रभस्तीर्थकरः स भूयात्/द्), मोक्षस्य सौख्याय सतां जनानाम् । सहस्रनेत्रोऽपि बभूव वज्री, द्रष्टुं क्षमो यस्य न रूपमाप्तम् ।।७।। ध्यानं प्रति स्वान्तमलं त्वदीयं, संलीनतां यातितरां मदीयम् । सुपार्श्व ! सर्वज्ञ ! नतेन्द्रवृन्दाऽयः प्रत्ययस्कान्त इव प्रकामम् ।।८।। चन्द्रप्रभश्चन्द्रमरीचिवर्णः, चिरं स जीयाद् भुवि वर्णनीयः । प्रकामितं कल्पलतेव दत्ते, भव्याङ्गिनां य: प्रकटप्रभाव: ।।९।। ध्यानेन नश्यन्ति तमांसि नृणां, कृतानि सम्यक् तनुवान()मनोभिः । शम्भो ! तव श्रीसुविधीश ! लोक-नाथोदयेनेव तमांसि भानोः ॥१०॥ शुभ्रत्वमेव सुयशः प्रकटीकरोति, येनेयी(यि)वान् सह विधुनिबिडं सखी(खि)त्वम् । आह्लादकार्ययमतो भृशमेव मन्ये, नेत्रेषु शीतलविभो ! जगतां कलङ्की ॥११॥ Page #7 -------------------------------------------------------------------------- ________________ जून २००९ पश्यामि पीयूषमयं भवन्त-मेवं न चेत्(द्) मेऽम्बकयोः कथं स्यात् ? सुधाञ्जनं शर्मकरं नितान्तं, श्रेयांस ! दृष्टे त्वयि सर्वदर्शी(शिन् !) ॥१२॥ विलोकय त्वं प्रिय-सौम्यदृष्ट्या, कामं त्वदेकोच्चलवृत्तिमर्हन् । कृत्वेत्ययं चेतसि मामकीनः, स्वतर्णकं गौरिव वासुपूज्य ! ॥१३॥ मयेहितं यन्मनसि प्रभो ! तत्, त्वद्दर्शनाज्जातमतस्त्वमेव ।। कल्पद्रुमः कामघटश्च चिन्ता-रत्नं जगत्यां विमलस्वयम्भूः ॥१४।। कर्मारयो येन हता(:) क्षणेन, मदोद्धताती(स्ती)क्ष्णमुखैस्तपोस्त्रैः । मत्ता महान्तोऽपि कृतापकारा अनन्तनाथः स सतां शिवाय ॥१५।। धर्मेन ! गम्भीरतया त्वयोच्चै-निच्चै(र्नीचे)ष्कृतोऽपां पतिरेव शीघ्रम् । नश्यन्ति दृष्टे भवतः कषायाः सूर्यप्रकाशादिव दुष्टचौराः ॥१६॥ शान्तिः स भव्याननवतानिकृष्टात्, पुत्रान् पिता स्वानिव चारुभक्त्या । गर्भस्थिते शान्तिरभूज्जगत्स्व-तो शान्तिनामेति पिता विचक्रे(?) ।।१७।। वप्रत्रयी सा शुशुभे ददौ सद्-धर्मोपदेशं जिनकुन्थुराशु । यस्यां दधत्यां कुसुमानि देवैः, क्षिप्तानि जानुप्रमितानि चारु ॥१८॥ त्वमेक एव त्रिजगत्स्वरार्हन् ! (?) कोऽप्यस्ति नाऽन्योद्भुतदृग् विना त्वाम् । सिंहो गुहायामिव चित्रभानु-रिवान्तरिक्षेऽसिरिवाऽग्रकोशे ।।१९।। तत्ते यशो भाति भुवीति पिण्डी-भूयाऽन्वहं यच्चरतीव भोः खे । मृगाङ्कदम्भाज्जनं(न)पावनार्थं, मल्लीश ! निश्शङ्कतया सनाथम् ॥२०॥ सुराङ्गनानां वचनानिलैस्ते, मनोलता सुव्रत ! कम्पिता न । अन्यैरसौरिव देव-शैलो मनागपि श्यामलकायकान्ते ! ॥२१।। ज्ञानं विभाति त्वयि तद्विशुद्धं, मुक्ताफलं हस्त इव स्थितं सत् । रज्वात्मको लोक इ ईश ! दृष्ट-श्चतुर्दशो येन नमे ! समस्तः ॥२२।। कुर्यात् स्थिति मे हृदये सदैव, शङ्खाङ्क ! नेमे ! प्रकटप्रभाव ! । आलम्ब्य यां ति(ती)र्यत आ भवाब्धि-राश्रित्य पोतं जलधिर्यथान्यै(:)।।२३।। दृष्टौ रसष्कोऽपि तवाद्भुतः सो-ऽन्येषां न भूतो न भविष्यतीह । यथैव माकन्दफले रसो यः, पार्श्वप्रभो ! नाऽर्कफले कदाचित् ॥२४॥ श्रीवर्द्धमानो भगवान् विदध्यात्, चिरं स मे हृत्कमलेंऽशुभावम् । सच्छर्मभव्यान् भुवि येन नीतं, दत्वोपदेशं रुचिरं शिवस्य ॥२५।। Page #8 -------------------------------------------------------------------------- ________________ 42 अनुसन्धान 48 एते वाचकचक्रवासवसभारामाललाटस्थलो(ले), भ्राजच्छित्त(त्र)समानतेजविजयप्रौढप्रभावोद्भवात् / विद्वत्श्रेणी(णि)किरीटमानविजयाघ्रीद्वैत(?)पद्मालिना, दीप्त्यावेन जिना(:) स्तुता इति भृशं शिष्येण संसिद्धये // 26 / / // इति श्रीचतुर्विशतिजिनं(न)स्तोत्रं समाप्तम् / / कल्याणमस्तु अश्विनभाई एस. संघवी कायस्थ महोल्लो, गोपीपुरा, सूरत-३९५००१