Book Title: Bhavanbhushan Bhushanbhavan Kavya
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ डिसेम्बर-२००९ सेवा देया यादेवासे नेमे देवं वन्देऽमेने । त्वामस्त्रिं नानास्त्रिं मत्वा सारांगातोतो गारांसाम् ॥९॥ आज्ञाज्ञातश्च दाराप्तो मण्डने ज्ञोस्य मूलतः । आज्ञाज्ञातश्च दाराप्तो मण्डनेऽज्ञोस्य मूलतः ॥ १०॥ इति श्री भवनभूषणे भूषणभवने पञ्चमाष्टकम् । ६ । अथ पूर्वर्णनम् । पूरतादृत एव वेत्ति न परश्चार्यागतिं सुन्दराम् मात्रामत्रमनन्तसिद्धिफलदं दूराय नांहीयुतम् । चार्यागत्युचितादशेषरहिता निश्शेषमौलिस्थितात् पात्रापात्रविशेषचेतिति परापूर्वप्रणीतात्स्फुटम् ॥२॥ शा० ॥ पू:पूर्वेव परा परापदहतिप्राणिव्रजे सद्दया सूर्याद्या सुरमण्डलीस्वरुचिराचारर्षिका कर्षिका । नित्योदारविभाजनाहतभया भव्यावलीमण्डिता भातीह प्रबला बला बलवती श्रीनाथनेमीशतः ||३|| शा० ॥ विद्युन्माला प्रसरशिशिरभावा माधव श्रीस्वभावा स्वपतिमिलनतापा द्रव्यवर्षाप्रतापा । सुहृदुदयसरिद्भा जन्मवेलैकसद्भा सघनभवनधन्या भाति पूराजकन्या ॥ ५ ॥ मालिनी ॥ उच्चाधोगुणनां कुतूब(ह?)लसरत्प्राणेह सोस्नेहदां भूयो लोकविवाससो लघुसृतिप्रक्षीणराजत्कटीम् । नाभीकूपसुरोमवल्लिपलिदां तत्स्तूपनृत्यत्कुचां ४७ श्रीतोया दवदग्धिकासुगुणगुः प्राकारसीमाभया नानानारदवर्त्तिकाऽर्जुनकथा वा कोपलक्ष्याक्षया । तापी पाति परीक्षिता हयगजा श्री औजयंती ह्यतः सूर्याघा नगरी विभाति सततं श्रीद्वारकेव स्फुटम् ||४|| शा० ॥ अनुष्टुप् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11