Book Title: Bhavanbhushan Bhushanbhavan Kavya
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan
View full book text
________________ डिसेम्बर-२००९ जिनपतामसमांगगिरिं यति४६ स्वपतिमार्गमुदौरकमाददे४८ / अभयभावनभावनभासुर-प्रियमपि प्रमदा प्रमुदा सह // 6 // द्रु० / स जयति जिननेमिः श्रीवरावासवासः स जयति जिननेमिः श्रीवरावासवासः / स जयति जिननेमिः श्रीवरावासवासः स जयति जिननेमिः श्रीवरावासवासः // 7 // [अं]त्यस्योपरि शब्दानां विस्तरोऽत्र विचार्यताम् / कुत्रचित्तस्थयोगोऽपि प्राघूर्णकसमोऽस्ति सन् // 8 // व्यतन्वन् साधुहर्षास्सत् सुमतिलाभहेतवे / विद्वल्लक्ष्मणनिर्देशा-दावासवर्णनं लसत् // 9 // ___ इति भवनवर्णनभवनभूषणे भूषणभवने अष्टमाष्टकम् / भक्त्या वा(वो)ज्झितपातकाः क्षितितले वो वै नमस्कारका ये भव्या नृभवं मुदेत्यविपुलं पुण्यं प्रकुर्वन्ति ते / अर्हन्तो भवदाशिषा स्थिरहृदः श्राद्ध विभान्तूद्धतात् (?) संख्यावद्यतयः श्रुताच्छमतयोऽस्मत्काव्यभव्यार्थिनः // 1 // मात्सर्याप्तो निजं वक्त्रं वक्रं ह्यतः करिष्यति / गतां च हीनतां सत्यं क्षुद्रकाप्तस्य विग्रहः // 2 // वाचक साधुहर्षगणिविरचिते सदुचिते भूषणभवनभवनभूषणकाव्यं सम्पूर्णमिति। श्रीरस्तु लेखकवाचकयोः / __जैन देरासर, नानी खाखर-३७०४३५, कच्छ, गुजरात अतीवरोगाः, तैीनाः स्वमहीना एवंभूता ये महीभृतः पर्वतास्तेषां 1 / यद्वा स्वयुक्ता मही स्वमही, तस्या इनाः स्वामिनः स्वमहीनाः, एवंभूता ये महीभूतस्तेषां, तथा 2 / यद्वा स्वेन द्रव्येण महो येषां ते स्वमहिनः स्वोत्सवा, एवंभूता इना राजानो यत्र ते स्वमहीनाः, एवंभूता ये महीभृतस्तेषां 3 / यद्वा अस्य महः अमहः कृष्णमहोत्सवः, अमहो विद्यते येषां ते अमहिनः, सुष्ठ शोभना अमहिनः स्वमहिनः, तेषांमिना येषु ते सु(स्व)महीनाः, एवंभूताश्च ते महीभृतश्च तेषां तथा / 4 / यद्वा स्वेन मा येषां ते स्वमाः, तैीनाः, शेषं तथैव, इत्थमन्येऽप्यर्था यथाबुद्धि कार्याः / स्वमहीनं यथा स्यात्तथा, अहीभृतां, अहयश्च इश्च अहयः, ताबिभर्ति(?) अहीभृतस्तेषां तथा। 45. सप्तकूटं / 46. गच्छति सति / 47. उदारेण उद्गमनेन कं सुखं यत्र स उदारकस्तं तथा, वा उदारकं कमनीयं कं पानीय यत्र स उदार०, तं तथा सुअमः स्वमः / सु इति अमेति शेषस्तुतिः / 48. जग्रहे /

Page Navigation
1 ... 9 10 11