Book Title: Bhavanbhushan Bhushanbhavan Kavya Author(s): Bhuvanchandravijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ ५० - इति भवनभूषण - भूषणभवने सप्तमाष्टकम् । ८ पट्टनपत्तनसारनिवासः सेवकसेवकनुत्यावासः । मोदक मोदक शोभनिवासो यच्छति यच्छति सं घनिवास:१८ 11211 तोटकम् वरभविमलनाथं दूरतस्त्वाविशेषं १९ लघुतरकरणाद्वा पण्डिताः खण्डितास्ते । वरभविमलनाथं दूरतस्त्वाविशेषं लघुतरकरणाद्वा पण्डिताः खण्डितास्ते ॥२॥ अनुसन्धान-५० स्रग्विणी अथ श्रीपतिवर्णनम् । अर्हत्सेवी जगद्वन्द्यः श्यामवर्णविराजितः । नरसिंहः सदानन्दः श्रीपतिर्जयति ध्रुवम् ॥३॥ अनेकार्थमनुष्टुप् छन्दः । नृपाख्यादौ वशाकूति: (श्री:) १८. सं सुखे यच्छति सति घनिवासः । शरीरिणो वासो वस्त्रं यच्छति । १९. हे नाथ त्वामिति। त्वां ते पण्डिताः वरभ - विमलनाथं लघुतरकरणाद्विदुः अतः कृष्णात् विशेषं यथा स्यात्तथा मलनाथमित्यर्थः । कस्मात् लघुतरकरणादर्थान्म त्यजनात् । हे विमल, विगता मा येषां ते विमास्तान् लाति विमलस्तस्य नाथस्तं, दलिद्राधि-पतिमित्यर्थः । पुनर्वरभ० वरभाश्च ते वयश्च वरभवयस्तेषां बलं अनिष्टशब्दत्वान्मलेत्यस्य कथनं वरभविमलं तस्य नाथस्तं । विदूरतो विशेषदूरस्थाः, कीदृशास्ते ? ते पण्डिताः । पण्डिताः खण्डिताः पण्डितैः आ इति खेदे, खण्डिताः सुदोषीकृताः वा पण्डितासा पण्डितासनेन खण्डिताः । पण्डिताः खण्डिताः। वा आपं । आं पाति आपः कृष्णस्तं आपं । डो व्यञ्जनं डकारव्यञ्जनं, तेन इता गता डिता इत रहिता इत्यर्थात्कृष्णं गता इत्यर्थः । पुनः विशेषं खण्डिताः । तु पुनः, आ समन्तात् । अस्य वा विशेषो यत्र तदाविशेषं यथा स्यात्तथा । ते । ते तव पण्डिता – इति त्वां हे वर हे भ, विमलनाथं लघुतरकरणात् जितेन्द्रियत्वात् । पुनर्लघुतरकरणात् ऊकारस्य ह्रस्वीकरणात् विदुः । कीदृशं नाथं - विमलनाथं । २०. अग्रस्थकश्रवणादत्र केतिपदग्राह्यः । -Page Navigation
1 ... 6 7 8 9 10 11